________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे शण्डिता / अचि शण्ड उत्सृष्टपशुक्रषिश्च / पण्ड इति तु सनेतेरौणादिके डे बाहुलकात् षत्वम् // 686 तडुङ् ताडने / उदित्त्वाद् ने तण्डते। ततण्डे / तण्डिता / "क्तेटो-'" 5 / 3 / 106 / इत्यः, वितण्डा / उणादौ "हृषि-वृति-" (उ० 485) इति उले तण्डुलः / तण्डुरिति तु तनोतो?। तण्डुना प्रोक्तमित्यणि ताण्डवम् // 5 687 कडुङ् मदे / उदित्त्वाद् ने कण्डते / कण्डिता / अचि कण्डम् / उणादौ "जठर-क्रकर-" (उ० 403) इति अरे कण्डरा स्नायुसङ्घातः। “कटि-पटि-" (उ० 493) इति ओले कण्डोलो विदलभाजनविशेषः / कण्डुरिति तु कण्डौं / कडुण खण्डने च कण्डयति // 688 खडुङ् मन्थे / उदित्त्वाद् ने खण्डते / चखण्डे / खण्डिता। घनि खण्डः / खडण् मेदे खण्डयति // 10 689 खुडुङ् गतिवकल्ये / उदित्त्वाद् ने खुण्डते / चुखुण्डे / खुण्डिता / चुरादेराकृतिगणत्वात् खुडण् खण्डने खुण्डयति // 690 कुडुङ् दाहे / उदित्त्वाद् ने कुण्डते। चुकुण्डे / कुण्डिता / आधारे "व्यञ्जनाद्-"५।३। 132 / इति घनि कुण्डम् / स्त्रियां "भाज-गोण-" 2 / 4 / 30 / इति ड्याम् कुण्डी अमत्रम् / "क्तेटो-" 5 / 3 / 106 / इत्यः, कुण्डा / उणादौ "मृदि-कन्दि-" (उ० 465) इति अले कुण्डलम् / 15 कुडुण् रक्षणे कुण्डयति // 691 वडुङ् 692 मडुङ् वेष्टने / विभाजनेऽप्यन्ये / विभाजनं विभागीकरणं चर्माभावश्च / उदित्त्वाद् ने वण्डते / ववण्डे / वण्डिता / अचि घञि वा वण्डः॥ मडुङ् / उदित्त्वाद् ने मण्डते। ममण्डे / मण्डिता / अचि घञि वा मण्डो रसायम् / णके मण्डकः / उणादौ "मृ-मन्यजि-" (उ० 58) इति ऊके मण्डूकः / "मृदि-कन्दि-" (उ० 465) इति अले मण्डलम् , स्त्रियां गौरादि20 त्वाद् ड्याम् मण्डली। "मी-मसि-" (उ० 427) इति ऊरे मण्डूरं लोहमलम् / “हृषि-पुषि-" (उ० 797) इति ण्यन्तात् इनौ मण्डयित्नुः / मडु भूषायाम् मण्डति / मडण् भूषायाम् मण्डयति // 693 भडुङ् परिभाषणे / उदित्त्वाद् ने भण्डते / बभण्डे / अचि भण्डः / भाडंमिति तु भामर्डः / मडुङ् कल्याणे भण्डयति / “णि-वेत्ति-" 5 / 3 / 111 / इत्यने भण्डना // 25. 694 मुडुङ् मजने / मज्जनं शोधनम् न्यग्भावश्च / उदित्त्वाद् ने मुण्डते / मुमुण्डे / मुण्डिता / घनि मुण्डः / मुडु खण्डने च मुण्डति // 1 षन् भक्तौ इत्यस्मात् “पञ्चमाद् डः” (उ० 168) इति डप्रत्ययः बाहुलकात् सत्वाभावश्च॥ 2 तनूयी विस्तारे इत्यस्य "तनि-मनि-कणिभ्यो दुः" (उ० 765) इति डौ॥ 3 सूत्रे आदिग्रहणात् // 4 कण शब्दे इत्यस्य "तनि-मनि-कणिभ्यो दुः” (उ० 765) इति डुप्रत्यये // 5 "वडि विभाजने, मडि वेष्टने इति नन्दी पठति"-माधक धा० पृ० 74 धातुअं० 269 // 6 भामि क्रोधे इत्यस्य “पञ्चमाद् डः" (उ० 198) इति डप्रत्यये //