________________ 10 आत्मनेधातवः 668-685] स्वोपचं धातुपारायणम् / अथ ठान्ताः सप्त सेटश्च 675 'एठि 676 हेठि विवाधायाम / एठते / “गुरुनाम्यादेः-" 3 / 4 / 48 // इति परोक्षाया आमि एठाञ्चक्रे / एठिता / "स्वरादे:-" 4 / 1 / 4 / इति द्वित्वे एटिठिषते // हेठि। हेठते। जिहेठे। हेठिता। णौ "णि-वेत्ति-" 5 / 3 / 111 / इत्यने विहेठना शाठ्यम् // 677 मठुङ् 678 कठुङ् शोके / शोकः अत्र आध्यानम् / उदित्त्वाद् ने मण्ठते ममण्ठे। 5 मण्ठिता // कठुङ् / उदित्त्वाद् ने कण्ठते उत्कण्ठते उत्कण्ठ्यते उच्चकण्ठे / घञि उत्कण्ठः। ते उत्कण्ठितः / ते सेट्त्वात् "क्तटो-" 5 / 3 / 106 इत्यः, उत्कण्ठा। उणादौ "हृषि-वृति-" (उ० 485) इति उले उत्कण्ठुलः / कठुण् शोके "युजादेर्नवा-" 3 / 4 / 18 / इति वा णिचि उत्कण्ठयति उत्कण्ठति // 679 मुठुङ् पलायने / उदित्त्वाद् ने मुण्ठते / मुमुण्ठे / मुण्ठिता // 680 वठुङ् एकचर्यायाम् / एकस्यासहायस्य चर्या गतिस्तस्याम् / उदित्त्वाद् ने वण्ठते / / ववण्ठे / वण्ठिता / अचि वण्ठः // 681. अठुङ् 682 पड्डङ् गतौ / उदित्त्वाद् ने अण्ठते / “अनातो-' 4 / 1 / 69 / इति पूर्वस्यात्वे ने च आनण्ठे। अण्ठिता // अथ डान्तात्रयोविंशतिः सेटश्च 16 पडुङ् / उदित्त्वाद् ने पण्डते पपण्डे / गत्यर्थत्वात् कर्तरि क्ते पण्डितः / अचि पण्डः / ते सेटत्वात् "क्तेटो" 5 / 3 / 106 / इत्यः, पण्डा / उणादौ “जठर-क्रकर-" (उ० 403) इति अरे निपातनात् पाण्डरः। पाण्डुरिति तु “पनेर्दीर्घश्च" (उ० 766) इति डौ पैनतेः / मध्वादित्वात् - रे तु पाण्डुरः॥ 683 हुर्डङ् 684 पिडुङ् सङ्घाते / उदित्वाद् ने हुण्डते। जुहुण्डे। हुण्डिता। अचि हुण्डं सम- 20 न्ततो विषम देहसंस्थानम् नामकर्मभेदानां षग्णां संस्थानानामन्त्यस्य विपाको नरकभवनियतः / 'केटो-" 5 / 3 / 106 / इत्यः, हुण्डा / "नाग्नि पुंसि च" 5 / 3 / 121 / इति णके हुण्डिका / उणादौ "किलि-पिलि-" (उ० 609) इति इः, हुण्डिः पिण्डित ओदनः // पिडुङ् / उदित्वाद् ने पिण्डते। पिण्डयते। पिपिण्डे। पिण्डिता। घनि पिण्डः; स्त्रियां गौरादित्वाद् डीः, पिण्डी। उणादौ "किलिपिलि-" (उ० 608) इति इ:, पिण्डिनिष्पीलितस्नेहः पिण्डः / पिडुण् सङ्घाते पिण्डयति // 25 685 शड्डङ् रुजायां च / चकारात् सङ्घाते / तालव्यादिः / उदित्त्वाद् ने शण्डते / शशण्डे। 1 "विपूर्वोऽयमिति स्वामि-काश्यपौ"-माधव० धा० पृ. 74 धातुअं० 264 // 2 विबाधनं शाठयम्माधव० धा० पूर्ववत् // 3 पालने इति माधवधातुवृत्तौ पृ० 73 धातुअं० 262 // 4 पनि स्तुती इत्यस्य // 5 "मध्वादिभ्योरः" 7 / 2 / 26 / इति सूत्रेण // 6 “अत्र काश्यपः-आर्यास्तु न पठन्ति द्रविडास्तु पठन्तीति / भाष्यादौ तु 'हुण्डा' इति 'अविगीतम्' उदादियते"-माधव० धा० पृ. 74 धातुअंक 266 /