________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 5 / 3 / 129 / अनटि तेजनम् तेजनी / उणादौ "भ्रूण-तृण-" (उ० 186) इति निपातनात् तीक्ष्णः / "तिजि-युजेर्ग च" (उ० 345) इति किति मे तिग्मम् / “अस्" (उ० 952) इत्यसि तेजः। तिजण निशाने उत्तेजयति // अथ टान्ताः सप्त सेटश्च 668 घट्टि चलने / घट्टते / जघट्टे। घट्टिता / अचि अरघट्टः / घनि घट्टः / णके उद्धट्टकः / "णि-वेत्ति-" 5 / 3 / 111 / इत्यने घट्टना / घट्टण चलने घट्टयति // 669 स्फुटि विकसने / स्फोटते / “अघोषे शिटः” 4 / 1 / 45 / इति पूर्वस्य सस्य लोपे पुस्फुटे। स्फोटिता। "वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति क्त्वा-सनोर्वा कित्त्वे स्फुटित्वा स्फोटित्वा, पुस्फुटिषते पुस्फोटिषते / “नाम्युपान्त्य-" 5 / 1 / 54 / इति के स्फुटः / घञि स्फोटः / डान्तोऽयमुदि10 चेत्येके, स्फुण्डते स्फुण्डिता / स्फट स्फुट्ट विशरणे स्फोटति / ऋदित्त्वात् अङि अस्फुटत् / स्फुटत् विकसने स्फुटति // 670 चेष्टि चेष्टायाम् / चेष्टा ईहा / चेष्टते / चिचेष्टे / णौ के "वा वेष्ट-चेष्टः" 4 / 1 / 66 / इति पूर्वस्य वा अत्वे अचचेष्टत् अचिचेष्टत् / क्ते चेष्टितम् / "क्तेटो-" 5 / 3 / 106 / इत्यः, चेष्टा // 671 गोष्टि 672 लोष्टि सङ्घाते ।गोष्टते / जुगोष्टे / गोष्टिता॥ लोष्टते / लोष्टिता। 15 कर्मणि घञि लोष्टः / उणादौ "भृ-मृ-तृ-त्सरि-" (उ० 716) इति उः, लोष्टुर्मुत्पिण्डः // 673 वेष्टि वेष्टने। वेष्टनं ग्रन्थनम् लोटनम् परिहाणिश्च / वेष्टते विवेष्टे वेष्टिता। णौ के "वा वेष्ट-" 4 / 1 / 66 / इति पूर्वस्य वा अत्वे अववेष्टत् अविवेष्टत् / यङि वेवेष्टयते / यङ्लुपि वेवेष्टीति, "धुटो धुटि स्वे वा” 1 / 3 / 48 / इति टलुकि वेवेष्टि। हौ "हु-धुटो-' 4 / 2 / 83 / इति हेर्धित्वे "तवर्गस्य-" 1 / 3 / 60 / इति धस्य ढत्वे "धुटो धुटि-" 1 / 3 / 48 / इति टस्य लुकि "तृतीयस्तृ20 तीय-" 1 / 3 / 49 / इति षस्य डत्वे वेवेड्डि / अचि प्रवेष्टो बाहुः / “नाम्नि पुंसि च" 5 / 3 / 121 // इति णके वेष्टकः, कर्णवेष्टकः // 674 अट्टि हिंसा-ऽतिक्रमयोः / अतिक्रम उल्लङ्घनम् / दोपान्त्योऽयम् / “तवर्गस्य-" 1 / 3 / 60 / इति डत्वं न कृतमसन्देहार्थम् / “तवर्गस्य-" 1 / 3 / 60 / इति दस्य डत्वे "अधोषे प्रथमो-" 1 / 3 / 50 इति टत्वे च अट्टते / “अनातो-" 4 / 1 / 69 / इति पूर्वस्यात्वे ने च आनट्टे / 25 दोपान्त्यत्वात् सनीटि "न ब-द-नम्-" 4 / 1 / 5 / इति दस्य निषेधात् "स्वरादेः-" 4 / 1 / 4 / इति द्वितीयांशस्य टेरेव द्विरुक्तौ “तवर्गस्य-" 1 / 3 / 60 / इति डत्वे "अघोषे-" 1 / 3 / 50 / इति टत्वे च अटिटिषते / अचि घञि वा अट्टः / किपि अद् अत् / तोपान्त्योऽयमित्येके, तेषां सनीटि अतिट्टिषते / येषां तु तान्तष्टोपान्त्यश्चायं तेषां थीति द्वित्वे अटिट्टिषते // अन्य एव सन्प्रकृतिस्तस्माच्च सन्नेव भवतीति, अन्यथा निन्दाया अन्यत्र यथा णिच् भवति तथा लडादिरपि स्यात्"-माध० धातु० पृ. 188 धातुअं० 951-54 / अत्रार्थे विशेषार्थिना पदमजरी विलोकनीयेति /