________________ मात्मनेधातवः 654-667] स्वोपशं धातुपारायणम् / एत्व-द्वित्वाभावविकरुपोऽपि तस्यैव, भेजे बभ्राजे / इदमेव च भ्राजेरात्मनेपदिनोऽप्युभयपदिषु राजग् दुभ्राजी दीप्ताविति पाठे प्रयोजनम् / “भ्राज्यलकृग्-'" 5 / 2 / 28 / इतीष्णौ भ्राजिष्णुः / “दिद्युद्दहृद्-"। 5 / 2 / 83 // इति क्विपि नभ्राक् / राजग दुभ्राजी दीप्तावित्यस्य तु दिवत्त्वादथौ भ्राजथुः / / 662 इजुङ् गतौ / उदित्त्वाद ने इञ्जते / इजाश्चके / इञ्जिता / / 663 ईजि कुत्सने च / चकाराद् गतौ / ईजते। वीजते। ईजाश्चक्रे / लौकिकस्य तु बीजेर- 5 वीजयत् / राजहंसैरवीज्यन्त / अस्य तु विपूर्वस्य णौ दिवि व्यैजयत् व्यैरत // 664 ऋजि गति-स्थाना-र्जनोजनेषु / ऊर्जन प्राणनम् / अर्जते / “ऋत्यारुपसर्गस्य"१।२।९। इति आरि उपार्जते / “अनातो-"४।१।६९। इति पूर्वस्यात्वे ने च आनृजे / सनिटः कार्यित्वेन द्वित्वं प्रति निमित्तत्वाभावेन द्वित्वात् प्रागेव स्वरस्य विधौ गुणे सति “अयि रः" 4 / 1 / 6 / इति रेफस्य द्वित्वाभावे "स्वरादेर्द्वितीयः" 4 / 1 / 4 / इति जेरेव द्वित्वम् अर्जिजिषते। णौ अर्जयति / "ऋदुपान्त्यात्-'; 10 5 / 1 / 41 / इति क्यपि ऋज्यम् / घञि उद्गादित्वात् गत्वे अर्गः स्थानम् , शोभनोऽर्गः स्वर्गः / उणादौ "ऋच्यूजि-" (उ० 48) इति किति ईके ऋजीकं वजं बलं च / “ऋजि-श-" (उ० 554) इति किति ईषे ऋजीषः अवस्करः / ऋजीषं धनमुपहतं च। उद्रिक्तादिसिद्धयर्थ व्यञ्जनादिमेनमन्ये मन्यन्ते // 665 ऋजुङ् 666 भृजैङ् भर्जने / भर्जन पाकप्रकारः / उदित्त्वाद् ने ऋञ्जते / "अ- 15 नातो-" 4 / 1 / 69 / इत्यात्वे ने च आनृख्ने / “ऋत्यारुपसर्गस्य" 1 / 2 / 9 / इत्यारि उपाञ्जते / ऋञ्जिता // भृजैङ् / भर्जते / बभृजे / “ऋवर्णस्य" 4 / 2 / 37 / इत्युतो वा ऋत्वे णौ डे अबीभृजत् अबभर्जत् / सनि बिभर्जिषते / ऐदित्त्वात् क्तयोर्नेट् , भृक्तः भृक्तवान् / क्तेऽनिट्त्वात् घनि गत्वे भर्गो रुद्रः / "ऋदुपान्त्यात्-" 5 / 1 / 41 / इति क्यपि भृज्यम् / उणादौ "कृषि-चमि-" (उ० 829) इति ऊः, भर्जूः, अभ्योषः // 20 667 तिजि क्षमा-निशानयोः। निशानं तीक्ष्णीकरणम् / “गुप्तिजो-" 3 / 4 / 5 / इति सनि तितिक्षते कोपम् / क्षान्तौ सन्विधानात् तेजने प्रत्ययान्तरम् / णौ तेजयति / "करणाधारे" १वीज्यते वा० सं१ // 2 " न्यकृद्गमेघादयः" 41 / 112 / / 3 'अभ्योषः अर्धरिवन्नयवादेतादिना भर्जितयवादेर्वा घृतपक्वान्नस्य 'पोळी' इत्यादिप्रसिद्धस्य" इति अमरटीकाकारः अमर. वैश्यवर्ग, कांड 2 श्लो 47 / 4 सहते इत्यर्थः॥ 5 तेन तेजनम् तेजयति इत्यादि / त्यादिसमानार्थत्वात् शत्रानशावपि न, 'अर्थान्तरेऽपि त्यादयो नाभिधीयन्ते' इति वचनात् / केचित् शत्रानशाविच्छन्ति, तेन गोपमान तेजमान केतन्तं प्रयुङ्क्ते इत्यपि भवति / “गुप्तिजो गाँ-क्षान्तौ सन्" 345 / इति सूत्रवृत्तौ प्रायेण इति भणनात् गोपते तेजते केतति बधते इत्यद्यपि, अत एव रसवाचकतिक्तशब्दसाधनाय तेज मिना-" इति 3 / 45 सूत्रलघुन्यासे कनकप्रभसूरिः / “अयं पक्षो नन्दि-मैत्रेययोरपि सम्मतः, हरदत्तस्तु नानुमन्यत एतद्, तथाच तद्वचः-'गुप गोपने इत्यस्य सन्विधौ प्रहणं तस्माच्च नित्यः सन्नेव भवति नापरः प्रत्ययः / गोपायतीत्यादि कस्तु प्रयोगो गुण रक्षणे इत्यस्य स चान्य एव, अवश्यं चैतदेवं विजेयम् /