________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे "ण-स्वरा-" 2 / 4 / 4 / इति ड्यां नो रत्वे च पीवरी // अथ कान्ता एकाभत्रिंशत् सेटश्च६०८ वकुङ् कौटिल्ये / गतावपीत्येके / उदित्त्वाद् ने वङ्कते, वह्निता, वक्तितुम् / अचि वर्ष काष्ठम् / उणादौ "खुर-क्षुर-'' (उ० 396) इति निपातनाद् रे वक्रेम् / “तति-वक्यकि-" (उ० 5 692) इति रिः, वक्रिः पार्थास्थि // 609 मकुङ् मण्डने। उदित्त्वाद् ने मकते / ममक्के / मिमकिषते / “इ-डितो-' 5 / 2 / 44 // . इत्यने मङ्कनः मङ्कना वस्त्रविशेषः / उणादौ "तृ-क-श-" (उ० 187) इति अणे मङ्कण ऋषिः / "मझेर्नलुक् वोच्चास्य" (उ० 424) इति उरे मुकुर आदर्शो मुकुलं च, मकुर आदर्शः कल्कः बालपुष्पं च // 10. 610 अकुङ् लक्षणे / गतावप्येके / लक्षणं चिह्नम् / उदित्त्वात् ने अङ्कते / अङ्कयते / “अनातो नश्चा-" 1 / 1 / 69 / इति पूर्वस्यात्वे ने च आनके / “म्नां धुड्-" 1 / 3 / 39 / इत्यत्रान्वित्यधिकाराद् द्वित्वे कर्तव्ये नकार एवास्ते ततो "न ब-द-नं संयोगादिः" 4 / 1 / 5 / इति नो न द्विरुच्यते, अश्चिकिषते / “व्यञ्जनाद् घञ्" 5 / 3 / 132 / इति घञि अङ्कयतेऽस्मिन् निधाय कान्तावक्त्रं शलाकयेत्यङ्क उत्सङ्गः / उणादौ “वाश्यसि-' (उ० 423) इति उरे अङ्कुरः / “वञ्युपसर्गस्य बहुलम्"३।२।८६। 15 इति दीर्घत्वे अङ्करः / अङ्कण लक्षणे अङ्कयति / “णिवेत्त्यास-" 5 / 3 / 111 / इत्यने अङ्कना // 611 शीकृङ् सेचने / गतावप्यन्ये / तालव्यादिः / शीकते / शिशीके / शीकिता। शीकितुम् / ऋदित्त्वाद् णौ डे "उपान्त्यस्यासमान-" 4 / 2 / 35 / इति हूस्वाभावे अशिशीकत् / अचि "क्तेटो-"५।३।१०६। इत्यप्रत्यये वा शीका / अनटि शीकनम् / उणादौ "ऋच्छि-चटि-"(उ०३९७) इति अरे शीकरः / शीकण आमर्षणे "युजादेर्नवा" 3 / 4 / 18 / इति वा णिचि शीकयति शीकति // 20 612 लोकङ् दर्शने / लोकते। लुलोके / ऋदित्त्वाद् णौ डे ह्रस्वाभावे अलुलोकत् / लोकितुम् , लोक्यते / लोकः, "भावा-ऽकोंः" 5 / 3 / 18 / इति घनं , लोकतेऽस्मिन्नवस्थितोऽनन्तज्ञानः सर्वभावानिति वा लोकः / आलोक्यतेऽनेनार्थ इत्यालोकः, "व्यञ्जनाद् घञ्" 5 / 3 / 132 / इति पञ्। लोकण भासार्थः लोकयति / उणादौ "शम्बूक-शाम्बूक-” (उ० 61) इति ऊके निपातनाद् ऊर्ध्व लोकनाद् उलूकः॥ १पाणिनीयाः-॥ 2 "वुर-क्षुर-" (उ. 396) इत्यत्र आदिग्रहणात् यद्वा "ऋज्यजि-तश्चि" (उ. 388) इत्यनेन वञ्च गतौ इत्यस्यापि रप्रत्ययेनैव / / 3 "बहुलवचनात् दीर्घत्वम्"-इति हेमचन्द्रपादाः (उ० 423) सूत्रवृत्तौ / 4 "धनपाल-काश्यपौ अयं दन्त्यादिरिति अत एव षोपदेशलक्षणे सृपि-सृजि-स्तृस्त्या-सीकृ-सेक-सूवर्जम् इति पेठतुः। अयं पाठो न ज्यायान्, शीकर इति प्रयोगाननुकूलात् , षोपदेशाः सृपिसजि-स्त्या-स्तु-स्तृ-सू-सेकृवर्जम् / " इति कारिकाविरोधाच्च / वामनाचार्योऽपि “अज्दन्त्यपराः सादयः पोपदेशाः स्मि-स्विदि-स्वदि-स्वञ्जि-स्वपितयश्च। सृपि-सृजि-स्तृ-स्त्या-सेक-सुवर्जम्" इति (काशिका अ. 14) पठन्नत्रैवानुकूलः इति" माधव. धा• पृ० 55 धातुअं० 75 तथा 85 /