________________ आत्मनेधातवः 608-633] स्योपशं धातुपारायणम् / 613 श्लोकङ् सङ्घाते / सञ्चातः संहननं संहन्यमानश्च / श्लोकते / शुश्लोके / श्लोकिता / ऋदित्त्वाद् डे न ह्रस्वः, अशुश्लोकत् / घञि श्लोक्यते-प्रथ्यते श्लोकः // 614 द्रेक 615 धेकृ शब्दोत्साहे / शब्दम्योत्साह औद्धत्यम् वृद्धिश्च / देकते, दिद्रके, देकिता। धेकते, दिधेके, ब्रेकिता। ऋदित्त्वाद् डे न हूस्वः अदिद्रेकत् , अदिधेकत् / घनि उद्रेकः // - 616 रेकृङ् 617 शकुङ् शङ्कायाम्। शङ्का सन्देहः पूर्वस्यार्थः, यदाह-"आरेकं संशयेऽप्याहुः" [ ] / द्वितीयस्य त्रासश्च / रेकते / आरिरेके / आरेकिता / ऋदित्वाद् डे न हम्वः, आरिरेकत् / "क्तेटो-" 5 / 3 / 106 / इत्यः, आरेका / घञि आरेकः / शकुङ् / उदित्त्वाद् ने शकते। शक्यते। शकिता। "क्तेटो-" 5 / 3 / 106 / इत्यः, शङ्का / उणादौ "हृषि-वृति-" (उ० 485) इति उले शङ्खला आयुधम् // 10 618 ककि लौल्ये / लौल्यं गर्धश्चापलं च / ककते / इदित्त्वाद् "इ-ङितः-" 3 / 3 / 22 / इत्यात्मनेपदम् / चकके, अत्राऽऽदेशादित्वाद् “अनादेशादे:-" 4 / 1 / 24 / इत्येत्वाभावः / ककिता। अचि काकः, पृषोदरादित्वाद्दीर्घत्वम् // 619 कुकि 620 वृकि आदाने / कोकते / चुकुके / कोकिता / “नाम्युपान्त्य-"५।१।५४। इति के कुकः। घञि कोकश्चक्रवाकः / “वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति क्त्वा-सनोर्वा कित्त्वे 15 कोकित्वा कुकित्वा, चुकोकिषते चुकुकिषते / “उति शवर्हाभ्यः क्तौ भावा-ऽऽरम्भे" 4 / 3 / 26 / इति .. वा कित्त्वे कुकितमस्य कोकितमस्य, प्रकुकितः प्रकोकितः / उणादौ "कल्यनि-" (उ० 481) इति इले कोकिलः // वृकि / वर्कते / ववृके / वर्किता / “नाम्युपान्त्य-" 5 / 1 / 54 / इति के वृकः / “ऋदुपान्त्यात्-" 5 / 1141 / इति क्यपि वृक्यम् / “ऋहवर्णस्य" 4 / 2 / 37 इति णौ डे गुणापवादे ऋतो वा ऋत्वे अवीवृकत् अववर्कत् // 20 621 चकि तृप्ति-प्रतीघातयोः। चकते / चेके / ते चकितः। उक्तार्थयोघटादित्वाद् "घटादे:-" 4 / 2 / 24 / इति णौ ह्रस्वे चकयति; जि-णम्परे तु वा दीर्घ अचाकि अचकि, चाकं चाकम् चकं चकम् ; अर्थान्तरे तु हस्वाभावे चाकयति / उणादौ "चकि-रमि-विकसेरुच्चास्य" (उ० 393) इति रे चुक्रः अम्लो रसो बीजपूरकमिञ्जिका असुरः निमन्त्रणं च / “कठि-चकि-" (उ० 433) इति ओरे चकोरः // 25 622 ककुङ् 623 श्वकुङ् 624 बकुङ् 625 श्रकुङ् 626 श्लकु 627 ढौकङ् 628 नौकङ् 629 प्वष्कि 630 वस्कि 631 मस्कि 632 तिकि 633 टिकि 634 1 शब्दोत्साहयोः इति केचित्॥ 2 उत्साहो वृद्धिरिति चन्द्रः। औद्धत्यमिति क्षीरस्वामी // 3 आइ .पूर्वः संशये इति माधवधातुवृत्तौ (पृ. 55 धा० 80) आरेक संशयं प्राहुः इति च // 4 "शङ्का स्यात् संशये भये" इत्यनेकार्थसंग्रहे कां० 2 श्लो. 15) हैमवचनात् अत्र त्रासार्थोऽपि प्रायः।