________________ आत्मनेधातवः 601-607] स्वोपझं धातुपारायणम् / अपमित्य याचते / अपमाय याचते / अत्र "मेडो वा मित्" 4 / 3 / 88 / इति वा मित् / पक्षे याचित्वाऽपमयते / उणादौ “शिग्रु-गेरु-" (उ०८११) इति निपातनात् रौ मेरुः, नमेरुः / “स्था-छा-मा-" (उ०३५७) इति ये माया / भांक् माने माति / मांङ् मान-शब्दयोः मिमीते // 604 देंङ् 605 . पालने / दयते / “ईय॑ञ्जने-" 4 / 3 / 97 / इतीत्वे दीयते। "देर्दिगिः-" 4 / 1 / 32 / इति दिग्यादेशे दिग्ये / 'नेादा-" 2 / 379 // इति नेर्णत्वेऽनुस्वारेत्त्वात् / इडभावे च प्रणिदाता प्रणिदातुम् / उणादौ "मन्" (उ० 911) इति मनि दाम / दाम दाने यच्छति / दैव शोधने दायति। दांवक् लवने दाति / डुदांग्क् दाने ददाति / दोंच् छेदने द्यति॥ अथ ऐदन्तात्रयोऽनिटश्च 3ङ् / त्रायते / तत्रे तत्राते / अनुस्वारेत्त्वाद् नेट् , त्राता / "ऋ-ही-घ्रा-"४।२।७६। इति क्तयोस्तस्य वा नत्वे त्रातः देवत्रातः त्राणः, त्रातवान् त्राणवान् // 10 606 इङ् गतौ / तालव्यादिः / श्यायते शश्ये शश्याते / अनुस्वारेत्त्वाद् नेट् श्याता श्यातुम् "श्यः शीवमूर्ति-स्पर्शे नश्चास्पर्शे" 4 / 1 / 97 / शीनं घृतम् ; स्पर्शे तु क्तयोस्तस्य नत्वाभावे शीतं वैतते, शीतो वायुः; अन्यत्र संश्यानः-शीतेन सङ्कुचित इत्यर्थः, अत्र "व्यञ्जनान्तस्थाऽऽतः-" 4 / 2 / 71 / इति तस्य नत्वम् / “प्रतेः” 4 / 1 / 98 / इति शीभावे क्तयोर्नत्वे च प्रतिशीनः प्रतिशीनवान् , प्रतिपूर्वोऽयं रोगार्थः / “वाऽभ्यवाभ्याम्" 4 / 1 / 99 / इति वा शीभावे क्तयोर्नत्वे च अगिशीनः 18 अभिश्यानः, अवशीनः अवश्यानः / “उपसर्गादातो-" 5 / 1 / 56 / इत्यत्र श्यावर्जनाद् डस्याभावे "तन्यधी-" 5 / 1 / 64 / इति णे प्रतिश्यायश्च पीनसः / उणादौ “मवाक-श्यामाक-" (उ०३७) इति आके निपातनात् श्यामाकः / “ह-श्या-रुहि-" (उ० 210) इति इते श्येतः / “श्या-कठि-"(उ० 282) इति इने श्येनः / “विलि-भिलि-" (उ० 340) इति मकि श्यामः // 607 प्यङ् वृद्धौ / प्यायते / पप्ये / अनुस्वारेत्त्वाद् नेट् , प्याता प्यातुम् / उणादौ “तीवर-धी- 20 वर-" (उ० 444) इति वरटि निपातनात् पीवरः / “ध्या-प्योः-" (उ०९०८) इति क्वनिपि पीवा, व्यतिपूर्वका व्यतिहारे वर्तन्ते, अयं तु स्वभावात् केवलोऽपीति, अत आह 'परकालार्थादपि' / अपमाय अपमित्य याचते अपमातुं प्रतिदातुं याचत इत्यर्थः पूर्व ह्यसौ याचते पश्चादपमयत इति / “याचेस्तु पूर्वकालेपि क्त्वा न भवति मेङः परकालभाविन्या क्त्वया याचिप्राकालस्योक्तत्वात्" इति 5 / 4 / 46 सूत्रबृहद्वृत्तौ // 1 "ची-नी-पी-म्यशिभ्यो रुः” (उ० 806) इति सूत्रेण मीच हिंसायाम् इत्यस्यापि रुप्रत्यये मेरुः // 2 द्रवस्य मूर्तिः काठिन्यं तस्मिन् स्पर्शे च वर्तमानस्य श्यायतेः क्तयोः परतः शीः आदेशः, तत्संनियोगे च क्तयोस्तकारस्यास्पर्श नकारादेशः // 3 कर्तरि क्तः। अत्र शीतस्पर्टी मुख्यभावेन, शीतो वायुरित्यत्र तु गौणभावेन // 4 द्रवमूर्ति-स्पर्शयोरप्यनेन परत्वाद्विकल्पो भवति, तेन अभिशीनं अभिश्यानं घृतम्। अवशीनं अवश्यानं हिमम् / अभिशीतः अवशीतो वायुः, अत्र स्पर्शत्वाद् नत्वाभावः। अभिश्यानः अवश्याम वायुरित्यत्र तु "ध्य अनान्तस्थातोऽख्याध्यः" 4 / 2 / 71 / इति स्पर्शेपि नत्वम् / 'अभिसंशीनः, अभिसशीनवान् अभिसंश्यानः अभिसंश्यानवान् इत्यादिषु समा व्यवधानेऽपि केचिदिच्छन्ति इति बृहवृत्तौ आचार्याः ।इदं वामनानुसारिमते वेदितव्यम् , तच्च काशिकायाम् "विभागाभ्यवपूर्वस्य" पा०६।१।२६॥ इति सूत्रवृत्तौ //