________________ 76 आचार्यश्रीहेमचन्द्रविरचित [भूवादिगणे. वर्जनात् "स्वरात्"२।३।८५। इति णत्वे प्रपवणम् , प्रपवणीयम् / उणादौ "दम्यमि-" (उ० 200) इति ते पोतः / “पू-मुदिभ्यां कित्" (उ० 93) इति गे पूगः / “य्वसि-रसि-" (उ० 269) इति अने पवनः / “शिक्या-ऽऽस्या-ऽऽढ्य-" (उ० 364) इति निपातनात् पुण्यम् / “पुत्रादयः" (उ० 455) इति / हूस्वे च पुत्रः / “स्वरेभ्य इ.” (उ० 606) पविः। “हु-पूग्-गोन्ती-" 5 (उ० 863) इति तृः, पोता पोतारौ / पूग्श् पवने पुनीते पुनाति // 601 मृङ् बन्धने / मवते / मुमुवे / मविता / मवितुम् / “ग्रह-गुहश्च-" 4 / 4 / 59 / इति सनि नेट् , मुमूषते / णौ सनि “ओर्जान्तस्था-" 4 / 1 / 60 / इति पूर्वस्योत इत्वे मिमावयिषति / उणादौ “विचि-पुषि-" (उ० 22) इति किति के मूकः / “शी-री-" (उ० 201) इति किति ते मूतः पुटबन्धः / जीवनस्य मूतो जीमूतः पृषोदरादिः / “शुक-शी-" (उ० 463) इति किति ले 10 मूलम्। "स्नु-पू-सू-" (उ० 542) इति किति षे मूषा // 602 धृङ् अवध्वंसने। धरते। दधे / णिगि मैत्राय शतं धारयति, अत्र "रुचि-क्लप्यर्थ-" 2 / 2 / 55 / इत्युत्तमर्णाच्चतुर्थी / यङि देधीयते / यङ्लुपि दरीधर्ति दरिधर्ति दर्धर्ति / “साहि-साति" 5 / 1 / 59 / इत्यजपवादे शे धारयः / “धारेर्धर्च"५।१।११३। इति खे वसुन्धरा, जलन्धरः, युगन्धरः। "धारीडो-" 5 / 2 / 25 / इत्यतृशि धारयन्नाचारङ्गम् , अत्र "तृन्नुदन्ता-" 2 / 2 / 90 / इति कर्मणि 15 न षष्ठी। विपि क्षेमधृत् / “न्याया-ऽवाया-" 5 / 3 / 134 / इति निपातनात् करणाशरे घापवादे पनि आधारः / भिदादिनिपातनादङि धारो प्रपातः, धृतिरन्या / उणादौ "अर्तीरि-” (उ० 338) इति मे धर्मः / “ऋ-ह-सृ-" (उ०६३८) इति अणौ धरणिः / धृग् धारणे धरति धरते / धृङ्त स्थाने ध्रियते / चुरादेराकृतिगणत्वात् धारयति / उभयपदिषु पठिष्यमाणस्याप्यस्य अवध्वंसने धरतीति प्रयो गनिवृत्त्यर्थ इह पाठः / / 20 अतः परौ एदन्तौ द्वावनिटौ च 603 मेंङ् प्रतिदाने / प्रतिदानं प्रत्यर्पणम् / मयते / प्रणिमयते, अत्र “नेर्भा-दा-" 2 / 3 / 79 / इति नेर्णत्वम् / “ईर्व्यञ्जने-" 4 / 3 / 97 / इतीत्वे मीयते / ममे / अनुखारेत्त्वाद् नेट् , माता मातुम् / "मि-मी-मा-दा-" 4 / 1 / 20 / इति स्वरस्येद्भावे द्वित्वाभावे च सनि मित्सते / “आतो डोऽहा-" 5 / 176 / इत्यत्र मावर्जनादणि द्रोणमायः / यङि मेमीयते / यङ्लुपि मामाति मामेति / "दो-सो25 मा-स्थ इ:" 4 / 4 / 11 / मितः मितवान् / “निमील्यादि-" 5 / 4 / 46 / इति परकालार्थादपि वा क्त्वि 1 जीवनस्य जलस्य मूतः पुटबन्धः जीमूतः, अत्र “पृषोदरादयः" 3 / 2 / 155 / इत्यनेम वनशब्दस्य लोपः // 2 अविध्वंसने इति सं१ सं२ वा. तपा०॥ 3 एतन्नामा तीर्थकरः // 4 आचारम्, अ संपार सं. सं२ तपा० प्र० वा० / आचारप्रतिपादकमङ्गमाचाराङ्गम् / आचर्यते शोभनं कर्मानेन व्यञ्जनाद् घम, आचारश्च तदर्श चेति वा // 5 खड्गादेर्वा / "धारा प्रपातन इति भिदादिपाठादङि गुणो दीर्घत्वं च। द्रवद्रष्यनिपातनं धारा इति न्यासे खड्गधारादावुपमानात् प्रयोग:-" इति माधववृत्तिः पृ. 163 धा, 884 // 6 अविध्वंसने इति सं१ सं२ वा. तपा०॥ 7 "स्वभावात् मेङ् व्यतिहार एवं वर्तते। कोऽर्थः ? अपरे धातवो