________________ आत्मनेधातवः 594-600] स्वोपझं धातुपारायणम् / "युवर्ण-'" 5 / 3 / 28 / इति अलि प्रवः / “दिद्युद्-" 5 / 2 / 83 / इति निपातनात् विपि कटपूर्नदीतीरः (1) / उणादौ "कमि-पु-गा--"(उ०२२५) इति थे प्रोथः अश्वघोणाग्रम् // प्लुत् / प्लवते। पुप्लुवे / अनुस्वारेत्त्वाद् नेट् , प्लोता। णौ सनि “श्रु- -"4 / 1 / 61 / इति वा ओरित्वे पिप्लावयिषति पुप्लावयिषति / णौ के सन्वद्भावात् अपिप्लवत् अपुप्लवत् / “भव्य-गेय-" 5 / 1 / 7 / इति निपातनाद्वा कर्तरि घ्यणि आप्लाव्यश्चैत्रो नद्याम् ; पक्षे भावे "उवर्णात्-'" 5 / 1 / 19 / इति ध्यणि 5 आप्लाव्यमनेन / अचि प्लवः, गौरादित्वाद् ड्याम् प्लवी। “आङो रु-प्लोः" 5/3 / 49 / इति वा अलि आप्लवः आप्लावः // 599 रुंङ् रेषणे च / चकारात् गतौ / रेषणं हिंसाशब्दः / रवते / रुरुवे / अनुस्वारेत्त्वाद् नेट् , रोता रोतुम् / “आङो रु-प्लोः" 5 / 3 / 49 / इति वा अलि आरवः आरावः / “रोरुपसर्गात्" 5 / 3 / 22 / इति पनि विरावः संरावः / उणादौ "तृ-क-श-" (उ० 187) इति अणे रवणः / “स्वरेभ्य-" 10 (उ० 606) इति इः, रविः / “रु-पूभ्यां कित्" (उ०८०७) इति रौ रुरुः / रुक् शन्दे रौति // अथ ऊदन्तौ द्वौ सेटौ च६०० पूङ् पवने / पवनं नीरजीकरणम्। पवते। पुपुवे। पविता। पवितुम् / “ग्रह-गुहश्च-" 4 / 4 / 59 / इति निषेधापवादे "ऋ-स्मि-पूङ्-'' 4 / 4 / 48 / इति सनीटि “ओर्जान्तस्था-'' 4 / 1 / 60 / इति पूर्वस्योत इत्वे च पिपविषते / यङि पोपूयते / यङ्लुपि पोपोति पोपवीति / “पूङ-क्लिशिभ्यो नवा" 15 4 / 4 / 45 / इति क्त-क्तवतु-क्त्वामादौ वेटि पवितः पवितवान् , अत्र “न डीङ्-" 4 / 3 / 27 / इति कित्त्वाभावाद्गुणः; पक्षे पूतः पूतवान् / पवित्वा, अत्र “क्त्वा" 4 / 3 / 29 / इति कित्त्वाभावाद्गुणः; पक्षे पूत्वा / “पू-दिव्यञ्चः-" 4 / 2 / 72 / इति क्तयोर्नत्वे पूना यवाः, विनष्टा इत्यर्थः / “जि-विपू-न्यो हलि-" 5 / 1 / 43 / इति क्यपि विपूयो मुञ्जः / “पूङ-यजः शानः" 5 / 2 / 23 / पवमानः / “हलक्रोडास्ये-'" 5 / 2 / 89 / इति त्रटि हलस्य पोत्रम् , सूकरस्य पोत्रम् / “पुव इत्रो दैवते" 5 / 2 / 85 / 20 पवित्रोऽर्हन् / "ऋषि-नाम्नोः करणे" 5 / 2 / 86 / पवित्र ऋषिः, पवित्रं दर्भादि / “निरभेः पू-स्वः" 5 / 3 / 21 / इति पनि निष्पावः / नन्द्यादित्वादने पवनः / “न ख्या-पूग्-"२।३।९०। इत्यत्र गितो 1 आचार्य हेमचन्द्रः 'कटपू' शब्दं स्वीये संस्कृतद्याश्रये उदाहरति / तथा च-“करिणां कटपूर्न मदो द्रुवाम्"सर्ग 12 श्लो० 45 / अत्र श्लोके उदाहृतं 'कट' शब्दं द्याश्रयवृत्तिकारः श्रीअभयतिलकगणिः एवं व्याख्याति"दुवां नश्यतां करिणां मदो न त्र:-न स्रवति भयेन मदः शुष्क इत्यर्थः। की। कटेभ्यो गण्डेभ्यः प्रवते निर्गच्छति कटप:-पूर्व प्रवाहेण वहन्नपि-इत्यर्थः" / एवमेव आचार्यहेमचन्द्रः स्वीये अनेकार्थसंग्रहे 'कटप्र' शब्दस्य इमान् अर्थान् कथितवान्-"कटप्रः अक्षदेवने" // 528 // "विद्याधरे-अस्रपे रुदे" / काण्ड 3 / नात्र 'कट' शब्दस्य 'नदीतीरः' इत्यर्थः सूचितः / अपरं च तटवाचकः तीरशब्दः नपुंसकलिङ्गः ततश्च अत्र 'नदीतीरम्' इति उचितः पाठः अथवा घट्ट-(भाषायां घाट) वाचकः अपरः 'तार' शब्दोऽप्यस्ति ततो नदीतारः इत्यपि पाठो भवेत् परंतु अस्माभिस्तु-तीरः इत्येव पाठो लब्धः। अन्यच्च पुंलिङ्गः 'तीर' शब्दः त्रपुवाचकः शब्दक / दृश्यते परन्तु 'नदीतीरः' इत्यत्र 'त्रपु' शब्देन किं कल्प्येत? अतः कथमपि 'नदीतीरः' इत्यस्य नावगम्यते भावः / 2 पोत्रं मुखम् // 3 पवतेइति पवित्रः कर्तरीदम् , केचित् करणेऽपि // 4 पूयतेऽनेनेति पवित्र ऋषिदर्भादि च, ऋषो कर्तर्यपि केचित् // 5 निष्पूयते इति विग्रहः //