________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे वि-" 1 / 3 / 108 / इति दीर्धे ऊयते / अनुस्वारेत्त्वाद् नेट् , ओता ओतुम् / सनो "नामिनोऽनिट्" 4 // 3 // 33 // इति कित्त्वाद्गुणाभावे "स्वर-हन्-" 4 / 1 / 104 / इति धातोर्दीधै सनो द्वित्वे ऊषिषते / क्तयोः उतः उतवान् / णिगि आवयति। “युवर्ण-" 5 / 3 / 28 / इति अलि अवः / उणादौ "स्वरेभ्य इः" (उ०६०६) अविः॥ कुं / कवते / चुकुवे / कोता। कोतुम् / “न कवतेर्यङः" 4 / 1 / 47 // 5 इति कस्य चत्वप्रतिषेधात् कोकूयते खरः। तिनिर्देशाद् यङ्लुपि चत्वप्रतिषेधाभावात् चोकोति। उणादौ "कु-पू-समिणभ्यश्चट दीर्घश्च" (उ० 112) कूचो हस्ती, कूची चित्रोपकरणम् / “यु-सु-कु-" (उ० 297) इति पे ऊत्वे च कूपः / “ऋच्छि-चटि-" (उ० 397) इति अरे कबरो वर्णः, कबरी वेणिः / “नी-मी-" (उ० 443) इति वरटि दीर्धे च कूवरः / "स्वरेभ्य-" (उ० 606) इति इः, कविः / कुक् शब्दे कौति, चोकूयते / कुंङ् कून् शब्दे कुवते, चोकूयते // गुंङ् / 10 अयमव्यक्ते शब्दे इत्येके / गवते / जुगुवे / अनुस्वारेत्त्वाद् नेट , गोता गोतुम् / उणादौ "शुभि गृहि-" (उ० 35) इति किति आके गुवाकम् / “मवाक-" (उ० 37) इति निपातनात् आके गूवाकम् / “हु-या-मा-" (उ० 451) इति त्रे गोत्रम् / “मृदि-कन्दि-' (उ० 465) इति अले गवलम् / दीर्घान्तमेनं परस्मैपदिनं पुरीषोत्सर्गे केचिदधीयते / गवति / गुंत पुरीपोत्सर्गे गुवति, गुता, गुतुम् // धुंङ / घवते / जुघुवे / अनुस्वारेत्त्वाद् नेट , घोता घोतुम् / उणादौ "घु-यु16 हि-" (उ० 24) इति के दीर्घ च घूकः॥ डुङ् / ड्वते / बुडवे / यडि जोडूयते / अनुस्वारेत्त्वाद् नेट् , डोता डोतुम् / “खुंङ्इत्येके // 594 च्युङ् 595 ज्युङ् 596 जुङ् 597 मुंङ् 598 प्लुङ् गतौ / पश्चाप्यनिटः / च्यवते / चुच्युवे / णिगि च्यावयति / णौ सनि “श्रु-सु-" 4 / 1 / 61 / इति वा ओरित्वे चिच्यावयिषति चुच्यावयिषति / णौ डे सन्वद्भावात् अचिच्यवत् अचुच्यवत् / अनुस्वारेत्त्वाद् नेट् , च्योष्यते / च्युतः 20 च्युतवान् / “नन्द्यादिभ्यः" 5 / 1 / 52 / इति अने च्यवनः॥ ज्युङ / ज्यवते / जुज्युवे / अनु स्वारेत्त्वाद् नेट् , ज्योता / उणादौ “मवाक-श्यामाक-" (उ० 37) इति आके निपातनात् ज्योन्ताकं स्वेदगृहम् // जुई / जवते। जुजुवे / अनुस्वारेत्त्वाद् नेट् , जोता / “भूषा-क्रोधार्थ-"५।२।४२। इति अने जवनशीलो जवनः / “प्रात्सू-जोरिन्" 5 / 2 / 71 / प्रजवनशीलः प्रजवी। “दिद्युद्-" 5 / 2 / 83 / इति निपातनात् क्विपि जूः पिशाचः, जुवौ जुवः / “युवर्ण-" 5 / 3 / 28 / इति अलि जवः / “साति25 हेति-"५।३।९४। इति निपातनात् क्तौ जूतिः। सौत्रोऽप्ययम् , जवति // श्रृंङ् / प्रवते / पुमुवे। अनुस्वारेत्त्वाद् नेट् , प्रोता / णौ फलवत्कर्तर्यात्मनेपदापवादे "चल्याहारा-" 3 / 3 / 108 / इति परस्मैपदे प्रावैयति / णौ सनि "श्रु-सु-" 4 / 1 / 61 / इति वा ओरित्वे पिप्रावयिषति पुप्रावयिषति। णौ से सन्वद्भावात् अपिप्रवत् अपुप्रवत् / “प्र-स-वो-" 5 / 1 / 69 / इति अके साधु प्रवते प्रवकः / 1 उकारस्य // 2 यद्यपि जवनः नुं वेगे इति सौत्रेण सिध्यति तथापि अत्रोल्लेखात् जुंङ् गतौ इत्यस्यापि भवति, अत्रार्थे हेमहंसगणयोऽपि तथैव पठनादनुकूलाः // 3 प्रापयतीत्यर्थः // .