________________ परस्मैधातवः 551-566] स्वोपझं धातुपारायणम् / . 559 बृदृ 560 बृहु शब्दे च / चकारा वृद्धौ / बर्हति। बबई / बर्हिता / ऋदित्वाद् "ऋदिच्छि-'' 3465 / इति वाऽङि अबृहत् , पक्षे अबहीत् / शतरि बर्हन् बर्हन्तौ बर्हन्तः / णके बर्हकः // बृहु / उदित्वाद् ने बृंहति / बृंहिता। क्ये बृह्यते / णके बृहकः / बृहन् बृहन्तौ बृहन्तः / क्ते हितम् / "क्षुब्ध-विरिब्ध-"४।४।७०। इति निपातनात् क्ते परिबृढः / उणादौ "बृंहेनोऽच्च" (उ० 913) इति मनि ब्रह्म / “बंहि-हेर्नलुक् च” (उ० 990) इति इसि बर्हिः // 5 561 उट्ट 562 तुट्ट 563 दुट्ट अर्दने / ऋदितस्त्रयोऽपि। ओहति। “उपसर्गस्या-"१।२।१९। इत्यवर्णलोपे अपोहति / ऋदित्त्वाद्वाऽङि औहत् , पक्षे औहीत् // तुह। तोहति / ऋदित्त्वाद्वाऽङि अतुहत् अतोहीत् / उणादौ "वृजि-तुहि-" (उ० 283) इति इने तुहिनम् // दुह / दोहति / ऋदित्त्वाद्वाऽङि अदुहत् अदोहीत्॥ 564 अई 565 मह पूजायाम् / अर्हति / “अनातो-" 4 / 1 / 69 / इत्यात्वे ने च आनर्ह 10 आनर्हतुः आनईः / अहिता / “अर्होऽच्" 5 / 1 / 91 / पूजार्हः, पूजाहा॑ / “सुग-द्विषा-" 5 / 2 / 26 / इति तृशि त्रिलोक्यभ्यर्चनप्रकर्षमर्हति अर्हन् / “व्यञ्जनाद्-" 5 / 3 / 132 / घञि "न्यद्ग-" 4 / 1 / 112 / इति घे च अर्हन्ति तेनेति अर्को मूल्यं पूजाद्रव्यं च / अधिर्धात्वन्तरं च सौत्रम् , अर्घः / ___ "कलां नार्धन्ति षोडशीम्"। [ ] "शक-धृष-" 5 / 4 / 90 / इति तुमि अर्हति भोक्तुम् / अर्हण पूजायाम। अर्हयति। "अयमर्थ- 15 विशेषे पूजायामेव चुरादिः" इति पूजाया अन्यत्र योग्यत्वादौ न णिच्, अर्हति / इह च पूंजायां पाठात् पूजायामपि णिजभावः // मह / महति। महिता। अचि महः, गौरादित्वाद् ड्याम् मही। उणादौ "दुहि-वृहि-" (उ० 884) इति कतरि महान् महान्तौ महान्तः / “अस्” (उ० 952) इति असि महः महसी / "महेरुच्चास्य वा” (उ० 89) इति खेऽन्तलुकि च मुखम् , मखः / “महेर्णिद्वा" (उ० 285) इति इने माहिनं महिनं च राज्यम् , महिनो माहात्म्यवान् / “मह्यविभ्यां 20 टित्" (उ० 547) इति इषे महिषः, महिषी / महण पूजायाम् महयति // अथ शान्ता विंशतिः सेटश्च–क्षान्तानां षान्तेषु पाठो युक्तः, वैचित्र्यार्थ त्विह कृतः / / ___566 उक्ष सेचने / उक्षति / "गुरुनाम्यादे:-" 3 / 4 / 48 / इत्यामादेशे उक्षाञ्चकार / उक्षिता। के उक्षितः / “व्यतिहारे-" 5 / 3 / 116 / इति ने “नित्यं त्र-" 7 / 3 / 58 / इति स्वार्थेऽणि व्यात्युक्षी / उणादौ "उक्षि-तक्षि-" (उ० 900) इति अनि उक्षा // 25 1 विक्रीयमाणस्य धान्यादेरियत्ता पूजाविधेिश्च इति माधवीयधातुवृत्तौ पृ० 129 धातुअं• 662 // 2 अर्घ मूल्ये इति सौत्रोऽयम् , तथा च श्रीमन्तो हेमहंसगणयः-अत्र यथोक्तसकलसौत्रादिधातूनां सङ्ग्रहश्लोकाः--. कामवादिरथ स्तम्भूस्तन्द्राः कि-पति-गृहि-चिरि-जु-क्रु स्तर्किः / कक्किः कर्किः सिकि-मर्कि-चड़ि-मकि-रिखिकगा-ऽपिमर्चाश्च // 1 // इवादि // 3 पूजायाः पावे. सं१ सं२ तपा० //