________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 567 रक्ष पालने / चौराद् रक्षति / ररक्ष / रक्षिता / “ग्रहादि-"५।१।५३। इति णिनि निरक्षी। ते रक्षितः / ते सेट्त्वात् "क्तेटो-' 5 / 3 / 106 / इत्यः, रक्षा / उणादौ “अस्” (उ० 952) इति असि रक्षः, भीमादित्वादपादाने साधुः / प्रज्ञादित्वात् स्वार्थेऽणि राक्षसः // 568 मक्ष 569 मुक्ष सङ्घाते / मक्षति मक्षिता / णके मक्षिका / रोषेऽयमित्येके / घनि मक्षो / मन्युः // मुक्ष / मुक्षति / मुक्षिता // 570 अक्षौ व्याप्तौ च / चकारात् सङ्घाते / “वाऽक्षः" 3 / 4 / 76 / इति श्नः, अक्ष्णोति अक्षति / , "अनातो-,४।१।६९। इत्यात्वे ने च आनक्ष आनक्षतुः आनक्षुः। औदित्त्वाद् “धूगौदितः" 4 / 4 / 38 / इति वेटि अष्टा अक्षिता / वेट्त्वात् क्तयोनेंट् , अष्टः अष्टवान् / उणादौ “जठर-क्रकर-” (उ० 403) इति अरे अक्षरम् / “पदि-पठि–" (उ० 607) इति इः, अक्षि / “उक्षि-तक्षि-" (उ० 10 (उ० 900) इति अनि अक्षा दृष्टिनिपातः // 571 तक्षौ 572 त्वक्षौ तनूकरणे / तनूकरणं काय॑म् / “तक्षः स्वार्थे वा". 3 / 477 इति श्भुः, तक्ष्णोति तक्षति / स्वार्थः पाठापेक्षया तनूकरणम् , इदमेव ज्ञापकम्-'धातवोऽनेकार्थाः' इति / स्वार्थादन्यत्र सन्तक्षति वाग्भिः शिष्यम्-निर्भर्त्सयते इत्यर्थः / ततक्ष। औदित्त्वाद्वेट् , तष्टा तक्षिता / वेट त्वात् क्तयोर्नेट् , तष्टः तष्टवान् / णके तक्षकः / उणादौ “उक्षि-तक्षि–" (उ० 900) इति अनि तक्षा, 15 "स्त्रियां नृत-" 2 / 4 / 1 / इति ड्याम् तक्ष्णी॥ त्वक्षौ / त्वक्षति / तत्वक्ष / औदित्त्वाद् वेट् , त्वष्टा त्वक्षिता / वेट्त्वात् क्तयोर्नेट् , त्वष्टः त्वष्टवान् // 573 णिक्ष चुम्बने / चुम्बनं वक्त्रसंयोगः / “पाठे-" 2 / 3 / 97 / इति णस्य नत्वे निक्षति / "अदुरुपसर्गा-" 2 / 3 / 77 / इति णत्वे प्रणिक्षति, परिणिक्षति / निक्षिता / "निस-निक्ष-" 2 / 3 / 84 / इति कृति वा णत्वे प्रनिक्षणम् प्रणिक्षणम्, प्रनिक्षिता प्रणिक्षिता। कृदभावेऽपि वा णत्वम् इत्येके, 20 प्रनिक्षति प्रणिक्षति / एवं निंस-निन्दोरपि // 574 तृक्ष 575 स्तृक्ष 576 णक्ष गतौ / तृक्षति। ततृक्ष / तृक्षिता। अचि तृक्षः / तृक्षस्यापैत्यं वृद्धम् तार्क्ष्यः // स्तृक्ष / स्तृक्षति / तस्तृक्ष / स्तृक्षिता / पोपदेशोऽयम् इति चन्द्रः॥ पक्ष / “पाठे"-२।३।९७। इति णस्य नत्वे नक्षति / “अदुरुपसर्गा-" 2 / 3 / 77 / इति णत्वे प्रणक्षति / अचि नक्षः / उणादौ “वृग्-नक्षि-" (उ० 456) इति अत्रे नक्षत्रम् / नखादिसूत्र त्वस्य निपातनम्25 'नाम्नां व्युत्पत्तिरव्यवस्थिता' इति ज्ञापनार्थम् // १"मी ज्यजि-मा-मद्यशौ-वसि-किभ्यः सरः” (उ० 439) इति सूत्रेण सरप्रत्ययेऽपि अक्षरम् // 2 "जठरक्रकर-" (उ०४०३) इत्यत्र तु आदिग्रहणात् // 3 अत्र “पदि-पठि-"(उ० ६०७)इत्यत्र आदिग्रहणात् अक्षि-इति // 4 पत्यं तायः संपा 1 वा. सं सं 2 तपा• // 5 अत्र "गर्गादेर्यज्ञ" 61142 // इति यम्-प्रत्ययः॥ 6 न क्षीयते न क्षरति वा नक्षत्रम् / यद्वा क्षद संवरणे इति सौत्रो धातुः, नक्षदति प्रभामिति नक्षत्रम् ,"हुया-मा-शु-" (उ. 451) इति त्रः। उभयत्र नखादित्वात् सिद्धम् // 7 "नखादयः" / 2 / 128 // इति सत्रम् /