________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे जर्स परिभाषण-हिंसा-तर्जनेष्वित्येके // जर्त्यति / जहँन्ती स्त्री॥ अथ हान्ताः पञ्चदश मिहं-दहंवर्जाः सेटश्च 551 मिहं सेचने / मेहति। मिमेह / अनुस्वारेत्त्वात् नेट् , मेढा / मेढुम् / “ह-शिटो-"३।४।५५। ___ इति सकि अमिक्षत् / “नाम्युपान्त्य-" 5 / 1 / 54 / इति के मिहः / “लिहादि-" 5 / 1 / 50 / अचि 5 "व्यञ्जनाद्-" 5 / 3 / 132 / इति घञि वा "न्य द्ग-" 4 / 1 / 112 / इति घत्वम् , मेघः / "ऋवर्ण-" 5 / 1 / 17 / इति घ्यणि मेह्यः / “नी-दाव्-" 5 / 2 / 88 / इति त्रटि मेढ़ः / अनटि मेहनम् / “दास्वत्साह-" 4 / 1 / 15 / इति निपातनात् कसौ मीढ्वान् मीदवासौ / उणादौ "शुषीषि-" (उ० 416) इति किति इरे मिहिरः // 552 दहं भस्मीकरणे / दहति / ददाह। अनुस्वारेत्त्वाद् नेद , दग्धा, धक्ष्यति / “गृ-लुप-" 10 3 / 4 / 12 / इति यङि “जप-जभ-" 4 / 1 / 52 / इति पूर्वस्य मौ दन्दह्यते। यङ्लुपि दन्दहीति दन्दग्धि / घ्यणि दाह्यम् / “व्यञ्जनाद्-" 5 / 3 / 132 / घनि निदह्यतेऽस्मिन्निति निदोषः, भावे घञि दाघः, कर्मणि अवदाघः भक्ष्ये " न्य ग-" 4 / 1 / 112 / इति घत्वम् ; अन्यत्र अवदाहः। "वेर्दहः" 5 / 2 / 64 / इति घिनणि विदहनशीलो विदाही। "परे:-" 5 / 2 / 65 / इति परिदाही। उणादौ “य्वसि-रसि-” (उ० 269) इति अने दहनः // 15 553 चह कल्कने / कल्लनं शाट्यम् / चहति / चचाह चेहतुः चेहुः। “व्यञ्जनादे:-"४।३।४७) इति वा वृद्धेः "न वि-जागृ-" 4 / 3 / 49 / इति प्रतिषेधात् अचहीत् / यडि चाचरते। यङ्लुपि चाचहीति चाचाढि / अचि चहः शठ इत्यर्थः / चहण कल्कने अदन्तः चहयति / “चहणः शाठ्ये" 4 / 2 / 31 / इति जिणम्परे णौ वा दीर्घ अचाहि अचहि, चाहं चाहम् , चहं चहम् // 554 रह त्यागे। रहति / रराह रेहतुः रेहुः / “न श्वि-जागृ-" 4 / 3 / 49 / इति वृद्धिप्रतिषेधात् 20 अरहीत् / उणादौ "कृ-वा-पा-जि-" (उ० 1) इति उणि राहुः / “अस्” (उ०.९५२) इति असि रहः / रहण त्यागे रहयति / अलि विरहः // ५५५रहु गतौ / उदित्त्वाद् ने रंहति / ररंह। रंहिता / उणादौ "अस्" (उ० 952) इति असि रंहः / रहुण् गतौ रंहयति // 556 दृह 557 दृहु 558 बृह वृद्धौ / दर्हति / ददर्ह दवहतुः दद्दहुः। दर्हिता // इहु। 25 उदित्त्वाद् ने मुंहति / क्ये दृह्यते / “बलि-स्थूले-" 4 / 4 / 69 / इति निपातनात् ते दहेदृहेश्च दृढः / हृहितुम् // बृह / बर्हति / बर्हिता / "क्षुब्ध-विरिब्ध-" 4 / 4 / 70 / इति निपातनात् ते नेट् , परिवृढः प्रभुः / उणादौ "दुहि-वृहि-" (उ० 884) इति कतृः, बृहन् बृहन्तौ, बृहती॥ 1 मु-आगमे / 2 दहेयवाभ्यां घमि सम्झायां हस्य प्रत्वम्, निदाघः ऋतुविशेषः॥ 3 कंवलपानीयपक्वोऽपूपः //