________________ परस्मैधातवः 536-550] स्वोपझं धातुपारायणम् / अनुस्वारेवाद् नेट् घस्ता, घस्तुम् / "सृ-घस्यदो मरक" 5 / 2 / 73 / घस्मरः / घनि घासः / उणादौ "भी-वृधि-" (उ० 387) इति रे घस्रो दिनम् / मरग्विषय एव घसिरित्येके // 545 हसे हसने / हसति / जहास जहसतुः जहंसुः। हसिता / “व्यञ्जनादेः-" 4 / 3 / 17 / इति वा वृद्धेरेदित्त्वाद् “न श्वि-जागृ-" 4 / 3 / 49 / इति प्रतिषेधे अहसीत् / “क्रियाव्यतिहारे-"३।३।२३। हसो वर्जनाद् नात्मनेपदम् , व्यतिहसन्ति / "न वा क्वण-" 5/3 / 48 / इति वालि हसः हासः। 5 उणादौ “दम्यमि-" (उ० 200) इति ते हस्तः / “भी-वृधि-" (उ० 387) इति रे हस्रो दिनम्, सहस्रं दश शतानि // 546 पिसृ 547 पेसृ 548 वेसृ गतौ / पेसति। पिपेस / पेसिता। ऋदित्त्वाद् णौ के "उपान्त्यस्या-" 4 / 2 / 35 / इति ह्रस्वाभावे अपिपेसत् / “नाम्युपान्त्य-" 5 / 154 / इति के पिसः / “स्थेश-भास-'" 5 / 2 / 81 / इति वरे पेसनशीलः पेस्वरः / पिसण हिंसायाम् पेसयति // 10 पेसृ / पेसति / क्ये पेस्यते / पिपेस पेसिता। ऋदित्त्वाद् णौ उ अपिपेसत्। क्ते पेसितम् // वेस / वेसति। क्ये वेस्यते / विवेस / ऋदित्त्वाद् णौ के अविवेसत् / वेसिता / ते वेसितम् / उणादौ “जठर-क्रकर-" (उ० 403) इति निपातनात् अरे वेसरः // 549 शसू हिंसायाम् / तालव्यादिः / शसति / शशास / “अनादेशादेः-" 4 / 1 / 24 / इत्येत्वस्य "न शस-दद-" 4 / 1 / 30 / इति प्रतिषेधात् शशसतुः शशसुः / शसिता / ऊदित्त्वात् शस्त्वा 15 शसित्वा / "धृष-शस-" 4 / 4 / 66 / इति प्रगल्भे एव नेट , विशस्तः प्रगल्भः, अन्यत्रेटि विशसितः / "व्यञ्जनादेः ' 4 / 3 / 47 / इति वा वृद्धेः "न श्वि-जागृ-' 4 / 3 / 49 // इति प्रतिषेधे अशसीत् / "नी-दाव्-'" 5 / 2 / 88 / इति त्रटि शस्त्रम् / उणादौ “शासि-शंसि-" (उ० 857) इति तृः, विशस्ता घातकः / / 550 शंम् स्तुतौ च / तालव्यादिः / चकाराद् हिंसायाम् / शंसति / शशंस शशंसतुः शशंसुः / 20 क्ये शस्यते / शंसिता। ऊदित्त्वात् शस्त्वा शंसित्वा / क्त्वि वेट्त्वात् क्तयोर्नेट, शस्तः शस्तवान् / "कृ-वृषि-" 5 / 1 / 42 / इति वा क्यपि प्रशस्यम् , पक्षे व्यणि प्रशंस्यम् / अणि नृशंसः, यो मृतान् शंसति निर्गतशंसो वा नृशंसः निरनुकम्प इत्यर्थः, पृषोदरादित्वान्निरो नृभावः, अनेकार्थत्वाद्वा द्रोहार्थत्वे नून् शंसतीति नृशंसः / ब्राह्मणादाहृत्य शंसतीति “अजातेः-" 5 / 1 / 154 / इति णिनि ब्राह्मणाच्छंसी, "ब्राह्मणाच्छंसी' 3 / 2 / 11 / इति निपातनाद् ङसेरलुप् / “शंसि-प्रत्ययात्" 5 / 3 / 105 / 25 इति अः प्रशंसा / उणादौ "चि-मिदि-"(उ० 454) इति किति त्रे शस्त्रं स्तोत्रमायुधं च / “शासिशंसि-" (उ० 857) इति तृः, शंस्ता पशुविशसिता // १सू-घसि-अदो मर" 5 / 2 / 73 / इति विहिते मरक्-प्रत्यये एव 'घस्' धातोः प्रयोगः-इति भावः / 2 जहसुः संपा 1 नास्ति // 3 पिपेस संपा 1 नास्ति // 4 प्रगल्भो जितसभः, अविनीत इति वामनः / तथा च "धषि-शसो वैयात्ये" // 2 / 19 / पाणि० सूत्रे तद्वचः-"वियातस्य भावो चैयात्यम् प्रागश्भ्यमविनीतता" इति /