________________ आचार्यश्रीहेमचन्द्र विरचितं युयूष / यूषिता / "नाम्युपान्त्य-" 5 / 1 / 54 / इति के यूषः, यूषम् / गौरादित्वाद् ड्यां यूषी // . जूष / जूषति / जूषिता / "नाम्युपान्त्य-'" 5 / 1 / 54 / इति के जूषः। क्ते जूषितः / "क्तेटो-" 5 / 2 / 106 / इत्यः, जूषा // शष / तालव्यादिः। शति / शषिता / उणादौ “पम्पा-शिल्पा-" (उ० ३००)इति पे शप्यते शप्पो बालतृणम् // चप। चषति / चषिता / “तिक्कृतौ नाम्नि" 5 5 / 1 / 71 / इति अकटि चषकः॥ खषेत्यपि कण्वः / खषति // 520 वृष सङ्घाते च / चकाराद् हिंसायाम् / वर्षति / ववर्ष ववृषतुः / वर्षिता। ऊदित्त्वात् क्त्वि वेट , वृष्ट्वा वर्षित्वा / क्त्वि वेट्त्वात् क्तयोर्नेट , वृष्टः वृष्टवान् // 521 भष भर्त्सने / भर्सनं कुत्सितशब्दकरणम् , अतो भर्त्सने शब्दकर्मकोऽयम् / भषति श्वाबुक्कतीत्यर्थः / भषति भषकः-पैशुन्येन वक्तीत्यर्थः / बभाष। भषिता / अचि भषः, गौरादित्वाद् ड्यां 10 भषी / क्ते भषितम् / “तिक्कृतौ नाम्नि" 5 / 1 / 71 / इति अकटि भषकः // 522 जिघु 523 विष 524 मिष 525 निषू 526 पृषू 527 वृष सेचने। षडप्यूदितः / जेषति / जेषिता / ऊदित्त्वात् क्त्वि वेट, जिष्ट्वा; "वौ व्यञ्जनादेः-" 4 / 3 / 25 / इति वा किये जेषित्वा जिषित्वा // विष / वेषति, परिवेषति / वेषिता / विष्ट्वा वेषित्वा विषित्वा। विष्लं की व्याप्ती वेवेष्टि, वेविप्टे॥ मिपू / मेषति / मेषिता / मिष्ट्वा मेषित्वा मिषित्वा / “लिहा15 दिभ्यः" 5 / 1 / 50 / इत्यचि मेषः / मिषत् स्पर्धायाम् मिषति // निष / नेषति / नेषिता / निष्ट्वा नेषित्वा निषित्वा / बहुभिरयं न पठ्यते // पृष / पर्षति / पर्षिता / पृष्टा पर्षित्वा / वेट्त्वात् क्तयोर्नेट्, पृष्टः, पृष्टवान् / “नाम्युपान्त्य-" 5 / 1 / 54 / इति के पृषः / “ऋदुपान्त्याद्-" 5 / 1141 // इति क्यपि पृष्यम् / उणादौ "पी-वि-शि-" (उ०१६३) इति किति ठे पृष्ठम् / “पृषि रञ्जि-" (उ० 208) इति किति अते पृषतो मृगः बिन्दुश्च / “कुशि-पिशि-" (उ० 212) इति 20 किति इते पृषितं वारिबिन्दुः / “हिरण्य-".(उ०३८०) इति निपातनात् अन्ये परिपर्षतीति पर्जन्यः। "ऋद्-घृ-' (उ० 635) इति किति णौ पृष्णिः किरणः। "पृषि-हृषिभ्यां वृद्धिश्च" (उ० 636) इति णौ पाणिः / “द्रुहि-वृहि-" (उ० 884) इति कर्तरि पृषन्ति जलबिन्दवः, पृषती मृगी। स्थूलपृषतीमालभेत // वृष / वर्षति / वर्षिता / वृष्ट्वा वर्षित्वा। वृष्टः वृष्टवान् / “ज्ञानेच्छार्चा-" 5 / 2 / 92 / इति सत्यर्थे क्ते वृष्टो मेघः / “कृ-वृषि-" 5 / 1 / 42 / इति वा क्यपि वृष्यम् वर्ण्यम् / 25 “नाम्युपान्त्य-" 5 / 1 / 54 / इति के वृषः / “श-कम-"५।२।४०। इति उकणि वर्षणशीलो वर्षकः। 1 "शदि-बाधि-खनि-हनेः ष च" (उ०२९९) इत्यत्र “शष हिंसायामित्यस्य वा रूपम्" इति कथनात् / अत्र च “पम्पा-" (उ.३००) इति सूत्रे आदिग्रहणात् इति // 2 'अन्य'प्रत्यये // 3 “परिपूर्वस्य पृषू सेचने इत्यस्य उपसर्गान्तलोपः धातोश्च जः समस्तादेशः / गर्जतेर्वा गकारस्य पकारः" इति हेमचन्द्रपादाः / अस्मदभिप्रायेण तु 'पृष्+अन्य' इति स्थिते उपान्त्यगुणे कृते पर्षन्य इति जाते षस्य जत्वे पर्जन्यः-इत्येवं साधनिकायां बहुतरं लाघवम् / 4 कित्-अतृप्रत्यये ऋकारो न्याद्यर्थः / तेन "अधातूइदितः // 4 // 2 // इति रुचां पृषती //