________________ परस्मैधातवः 520-535] स्वोपझं धातुपारायणम् / "वर्षादयः क्लीबे" 5 / 3 / 29 / इति अलि वर्षम् / भिदादयः"५।३।१०८। इति निपातनात् अङि वर्षाः। "क्विप्" 5 / 1 / 148 / इति “क्रुत्सम्पदादिभ्यः" 5 / 3 / 114 / इति वा क्विपि प्रवर्षति प्रवर्षन्त्यत्र मेघा इति वा प्रावृट् , अत्र “गतिकारकस्य-"३।२।८५। इति प्रस्य दीर्घः / उणादौ "ऋषि-वृषि-" (उ० 331) इति किति अभे वृषभः। "तृपि-वपि-" (उ० 468) इति किति अले वृषलः / "ऋद्-घृ-" (उ० 635) इति किति णौ वृष्णिः / “लू-पू-यु-" (उ० 901) इति किति अनि 5 वृषा इन्द्रः / “दिवि-पुरि-" (उ० 599) इति कित् आः, वृषा प्रबलम् // __528 मृष सहने च / चकारात् सेचने / मर्षति / मर्षिता / ऊदित्त्वात् क्त्वि वेट्, मृष्ट्वा; इटि "ऋत्तृष-" 4 / 3 / 24 / इति क्त्वो वा कित्त्वे मृषित्वा, मर्षित्वा / वेट्वात् क्तयोर्नेट्, मृष्टः मृष्टवान् , अनानिटत्वात् क्तयोः क्षान्तावपि “मृषः क्षान्तौ” 4 / 3 / 28 / इति न कित्त्वप्रतिषेधः / “शासू-युधि-" 5 / 3 / 141 / इति अने दुर्मर्षणः, सुमर्षणः / मृषीच तितिक्षायाम् मृष्यति मृष्यते। अपमृषित 10 वाक्यमाह // ___529 उधू 530 श्रिपू 531 श्लिष 532 पुष 533 प्लुष दाहे / पञ्चाप्यूदितः / ओषति / “जाग्रुष-" 3 / 4 / 49 / इति वाऽऽमादेशे ओषाञ्चकार, उवोष / ओषिता / ऊदित्त्वात् क्त्वि वेट , उष्ट्वा उषित्वा / ये तु ऊदितं न मन्यन्ते तन्मते ऊषित्वा इत्येव भवति / उणादौ "उषेः किल्लुक् च" (उ०८८) इति खे उखा। “वनि-कणि-"(उ०१६२) इति ठे ओष्ठः / “घृ-वी-हा-"(उ०१८३) 15 इति किति णे उष्णम् / “सू-मू-खनि-" (उ० 449) इति किति त्रुटि उष्ट्रः / “उपे च" (उ० 959) इति असि ओजो बलम् / "मिथि-रज्युषि-" (उ०९७१) इति किति असि उषः प्रातः // श्रि। श्रेषति। शिश्रेष। श्रेषिता। श्रिष्ट्वा श्रेषित्वा श्रिषित्वा। श्रिष्टः श्रिष्टवान् / “नाम्युपान्त्य-" 5 / 1 / 54 / इति के श्रिषः // श्लिष्त / श्लेषति / श्लेषिता श्लिष्ट्वा श्लेषित्वा श्लिषित्वा / श्लिष्टः श्लिष्टवान् / अश्लेषीत् / श्लिषञ्च आलिङ्गने लिप्यति / श्लेष्टा। श्लेष्मा / श्लिषण श्लेषणे श्लेषयति // 20 प्रुधू / प्रोषति। पुप्रोष / प्रोषिता। पृष्ट्वा प्रोषित्वा पुषित्वा / उणादौ “निघृषी-" (उ० 511) इति किति वे पुष्वा निवृत्तिः॥ प्लुपू / प्लोषति / पुप्लोष / प्लोषिता / प्लुष्ट्वा प्लोषित्वा प्लुषित्वा / प्लुष्टः प्लुष्टवान् / प्लुपूच् दाहे प्लुष्यति / ग्रुप प्लुषश् स्नेह सेचन-पूरणेषु पुष्णाति प्लुष्णाति // 534 घृषु संहर्षे / घर्षति। जघर्ष / घर्षिता। ऊदित्त्वात् घृष्ट्वा घर्षित्वा / वेट्त्वात् क्तयोर्नेट्, धृष्टः घृष्टवान् / “नन्यादिभ्यः" 5 / 1 / 52 / इति अने सङ्घर्षणः / उणादौ “निघृषी-"(उ० 511) इति 25 किति वे निघष्वोऽनुकूलः // __ 535 हृषू अलीके / हर्षति। जहर्ष / हर्षिता / ऊदित्त्वात् हृष्ट्वा हर्षित्वा / वेदत्वात् क्तयोर्नेट्, हृष्टः हृष्टवान् , शील्यादित्वादत्र सत्यर्थे क्तः / “हृषेः केश-गोम-विस्मय-प्रतिघाते" 4 / 4 / 76 / ईति 1 नित्यबहुवचनान्तः स्त्रीलिङ्गश्चायम् / / 2 स्नेहन-सेचन सं 2 // 3 "घृषू संघर्ष' इति माध० धा. 10 125 धातुअं० 695 / हेमधातुपाठेऽपि “संघर्षे” इति / 4 इति बेटि संपा०१ वा० //