________________ 78 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / तीक्ष्णानि बहुविधानि अस्त्राणि पाणौ दधाना नु नतु तत्प्रयोगेऽपि समर्था इति भावः अस्माकं शकानाम् देशसीमां मण्डलावधिम् समुपनिपततः सीमामुल्लय मण्डलान्तः प्रविशतः सुमूर्खान् मन्दबुद्धीन्, सीमोल्लङ्घनदुष्परिणामाज्ञानादिति भावः / मुमूर्धन् मृत्युमिच्छतः, मृत्यु विहायान्यफलासम्भवादिति भावः / धिक् निन्दनीया एते स्वाहितापरिज्ञानादिति भावः / एते च समागता योधाः उपेक्ष्यमाणाः नैते किमपि कर्तुं प्रभवन्तीति उपेक्षिताः सन्तः आयतावुत्तरकाले व्यसनजननवत् व्यसनोत्पत्तिमिव, शर्मणे कल्याणाय न स्युः भवेयुः, यथा हि व्यसनमादौ अकिञ्चित्करमपि पश्चाद् दुस्त्यनं भवति तथेत्यर्थः तत्ततः विमूढान् मन्दमतीन् एतान् सुकृतपरिणतेः पुण्यपरिणामरूपायाः शक्तितः स्वपराक्रमतः, न विनापुण्यं पराक्रमो भवतीति भावः / पञ्चत्वं मृत्यु प्रापयामः, निहन्म एतानित्यर्थः // 255 // विचायति विचार्य चै शकवीरमण्डली, विचित्रधौताऽऽयुधजातमण्डिता। पुरस्थसैन्येन च चक्रवर्तिनः, प्रचक्रमे योद्धमनुक्रमेण सा // 256 // एवमुक्तप्रकारेण विचार्य च सा शकवीरमण्डली शकभटसमूहः विचित्रैः नानाविधैः धौतैः"क्षालितैः धौतं क्षालितं" इति हैमः धवलैः तीक्ष्णैश्चायुधजातैः अस्त्रसमूहैः मण्डिता सहिता सति, अस्त्राणि गृहीत्वेत्यर्थः / चक्रवर्तिनः शान्तिजिनस्य पुरस्थेनाग्रसरेण सैन्येनानुक्रमेण क्रमश: योद्धं / प्रचक्रमे प्रकान्ता // 256 // चमूपतिरिति चमूपतिर्वीक्ष्य पराङमुखीकृतान् , किरातवीरैः प्रभुसैनिकानिमान् / क्रुधाऽसिरत्नं परिगृह्य संमुखोऽश्वरत्नमारुह्य दधाव तान् प्रति // 257 // चमूपतिः शान्तिसेनापतिः इमान् युद्धचमानान् प्रभोः शान्तेः सैनिकान् किरातवीरैः शकयोधैः पराङ्मुखीकृतान् पलायनपरान् वीक्ष्य क्रुधा असिरत्नं खङ्गरत्नं परिगृह्य अश्वरत्नमारुह्य तान् शकवीरान् प्रति संमुखः सन् दधावाऽभिययौ // 257 // विभेति विभासमानेन च तेन तत्क्षणं, रराज रत्नत्रितयेन सा चमूः / यथैव शक्तित्रितयेन राजता, यथैव गुप्तित्रितयेन साधुता // 258 // तेन चमूपतिना विभासमानेन राजमानेन सता तत्क्षणं तस्मिन् काले सा चमू: सेनारस्नानां त्रितयेन असिरूपेणाश्वरूपेण सेनापतिरूपेण च रराज शुशुभे, किमिवेत्याह-यथैव हि-"शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः" इतिहैमोक्तेः"-शक्तीनां प्रभुत्वोत्साहमन्त्रजानां त्रितयेन• राजता