________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् नृपत्वम्, यथैव च गुप्तीनाम्-मनोगुप्तिवचनगुप्तिकायगुप्तीनां जिनोक्तानां त्रितयेन साधुता तथेत्यर्थः / / मालोपमाऽलङ्कारः // 258 // रणेति रणाङ्गणे तस्य पताकिनीपतेर्न कोऽपि तस्थौ पुरतोऽभिधावतः / तमिखसंभार इवोष्णदीधितेर्गरुत्मतः सर्प इवाऽभिसर्पतः // 259 // रणाङ्गणे युद्धस्थल्याम् अभिधावतः जवेन प्रहरतः तस्य पताकिनीपतेः सेनापतेः पुरतोऽग्रतः कोऽपि न तस्थौ, अने, गतः सर्वोऽपि मृतो वा पलायितो वा, क इवेत्याह-उष्णदीघितेः सूर्यस्याग्रतः तमिस्रस्य तिमिरस्य संभारोऽतिशय इव, अभिसर्पतः सम्मुखं धावतः गरुत्मतो गरुडस्याग्रतः सर्प इव / मालोपमा . // 259 // शालूरा इति शालूरा इच केचनाऽपि सरसि त्रस्ता ममज्जुर्भटा, भुञ्जाना इव केचनाऽपि वदने न्यास्थन् स्वहस्ताङ्गलीः / स्वप्राणान् परिरक्षितुं वृषभवत् तस्मिँश्च केचित् तृणं, केऽपि काऽपि निलिपियरे सलिलवद् दुग्धे विदग्धाशयाः // 260 // तस्मिन् रणाङ्गणे च त्रस्ताः मृत्युभीताः सन्तः केचित्कतिपयभटा योधाः शालूरा भेका इव"भेके मण्डूकवर्षाभूशालरप्लवदर्दुराः” इत्यमरः / सरसि-तडागे, ममज्जुः, अलक्ष्यत्वाद्यथा हतो न स्यामिति बुद्धयेति भावः। केचनाऽपि भुञ्जाना भोजनं कुर्वाणा इव वदने मुखे स्वहस्ताङ्गुलीः न्यास्थन् निवेशयामासुः, अभटान् बुद्ध्वा यथा न हन्यादिति भावः / केचिच्च स्वप्राणान् परिरक्षितुं वृषभवत्पशुवत् तृणं वदने न्यास्थन् , तृणमुख हि वीरो न हन्तीति युद्धनीतिरिति भावः / केऽपि च विदग्धाशयाः चतुराः दुग्धे क्वापि स्थाने सलिलवत् सलिलानीव निलिपियरे तिरोहिताः // 26 // अनीति अनीकिनीनायकरत्नसायकपभिन्नलक्षस्य विलोकनादिति / विलक्षतामाप्य दिशो दिशं ययुः किरातवीरा मरुतेव पांशवः // 261 // इत्युक्तप्रकारेण अनीकिन्याः सेनाया नायकरत्नस्य सेनापतेः सायके बाणेन प्रभिन्नस्य हतस्य लक्षस्य लक्षसङ्ख्यकबलस्य वेध्यस्य वा--"वेध्यं तु लक्षं लक्ष्यं” इति हैमः / विलोकनात् विलक्षतां विषादम् लक्षसङ्ख्याशून्यताश्चाप्य अवशिष्टा अत्यल्पाः किरातवीराः मरुता वायुना कृत्वा पांशवो रजांसीव दिशः एकदिशातः दिशमपरां दिशं ययुः भयान्न कापि तस्थुरित्यर्थः / 261 /