________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / अतीत्येति अतीत्य ते भूमिमनेकयोजनामवाप्य चोच्छ्वासमलुप्तचेतनाः। विलज्जमाना मिलिताः परस्परं विमर्शमेतादृशमाशु चक्रिरे // 232 // ते शकवीराः अलुप्तचेतनाः जीवन्तः अनेकयोजनां भूभिमतीत्योल्लध्य पलायित्वा किययोजनानि गत्वेत्यर्थः / उच्छ्वासं साम्प्रतं न भयमित्येवमाश्वासमाप्य च विलज्जमानाः पराजयेन लज्जिता इव सन्तः मिलिताः एकत्रिताः सन्तः परस्परमाशु एतादृशं वक्ष्यमाणप्रकारं विमर्श चक्रिरे // 262 // तेषां विमर्शमेवाह-कुकर्मेति-- कुकर्मपरिपाकतः सुकृतसंक्षयोऽजायत, ध्रुवं सपदि नः परं, कथमुपैति चात्राऽन्यथा / तमिस्रभरकन्दरं गिरिमतीत्य वैताढ्यकं, पराक्रममहानिधी रिपुरनेकसैन्योत्करः 1 / 263 / कुकर्मणां परिपाकतः उदयतः सपदि साम्प्रतम् नोऽस्माकम् परमत्यन्तं सुकृतस्य पुण्यस्य संक्षयोऽजायत, ध्रुवं नात्र संशयः, तत्र हेतुमाह-अन्यथा पुण्यसत्त्वे च तमिस्रभरा गाढान्धकारा कन्दरा यस्य तं तादृशं वैताड्यकं गिरिमतीत्योल्लय अनेकसैन्योत्करः सैन्यसमूहोपचितः पराक्रमस्य महानिधिः महानाश्रयः रिपुः शत्रुः अत्रास्मद्देशे कथं केन प्रकारेणोपैति निकटीभवति यदि हि पुण्यं स्यान्नात्रागन्तुं प्रभवेदरिः पुण्यप्रभावेनैव स्वदेशे शत्रोरागमनं न जायत इति भावः पराजयः पुण्यक्षयान्यथाऽनुपपन्न इति यावत् / 263 // मानान्धैरिति मानान्धैर्विदधे मृधं विगणनां निर्वास्य सर्वात्मनः, प्राप्तोऽस्माभिरहो न चापि विजयो भूयान् निकारोऽजितः / खड्गपासछुरीशरासनशराभ्यासोऽभवद् निष्फल स्तस्माद् नो मरणं विहाय शरणं नैवास्ति किञ्चित् परम् // 264 // मानान्धैः मिथ्याभिमानमूढैरस्माभिः शकवीरैः सर्वात्मना सर्वथा विगणनां विचारं निर्वास्य त्यक्त्वा अविचार्यैवेत्यर्थः मृधं युद्धं विदधे कृतम्-"मृधं प्रहरणं संयद्रणौ विग्रहः” इति हैमः" / अहो ! खेदे यत् विजयः नचापि नैव प्राप्तः प्रत्युत निकारः पराजय एवाजिंतः प्राप्तः खङ्गानां प्रासानां कुंतानाम् छुरीणां शस्त्रीणां शरासनानां धनुषां शराणां बाणानाञ्चाभ्यासः निष्फल: कार्यासाधकत्वात् अकिञ्चित्करोऽभवत् / तस्मात्साधनवैगुण्यतः मरणं विहाय परमन्यत्किञ्चित् शरणं रक्षको नैवास्ति // 26 // घिगिति घिय् नः पौरुषमेतदस्तु सुभटमन्यात्मनां वर्णनां, संपाप्याऽस्तमियाय यच्च समये सूरोदये चन्द्रवत् /