________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् न श्लाघ्यं बत ! जीवितं परिभवे मानोत्तमानां नृणां / दृष्ट्वा योऽपि पराभवं स्थिरतरं तिष्ठेत मानः स किम् ? // 265 // नोऽस्माकं शकवीराणामेतदभिमन्यमानम् पौरुषं पराक्रमं धिगस्तु, समयेऽकिञ्चित्करत्वादिति भावः तदेवह यद्यतः सूरोदये सूर्योदयसमये चन्द्रवत् समये रणावसरे असुभटं सुभटमात्मानं मन्यन्ते इति तेषां नतु वस्तुतः सुभटानामस्माकम् यत्र पौरुषं वर्णनां प्रशंसां सम्प्राप्यास्तं नाशं चन्द्रपक्षेऽस्तगततां चेयाय प्राप बतेति खेदे मानोत्तमानां मानिनां नृणां परिभवे पराजये सति जीवितं श्लाघ्यं प्रशस्यं न, तत्र हेतुमाह पराभवं पराजयं दृष्ट्वाऽपि यो मानोऽभिमानः स्थिरतरं तिष्ठेत , स मानः किम् ? निस्सार इत्यर्थः / मानी हि जये सति स्थिरः, पराजये तु नष्ट एवेति भावः // 265 // . हुतेति हुताशनान्तर्विशनात्मघातनाऽद्रिसङ्गसंपातविषाऽशनादिभिः / म्रियामहे तद् रुचिरं चिरं भवेद् न पत्तिमात्रस्य पराभवे स्थितिः // 266 // हुताशनस्याग्नेरन्तर्विशनेनाग्निप्रवेशेन, आत्मना स्वयमेव घातनेन स्ववधेन अद्रिसङ्गसम्पातेन भृगुपतनेन विषस्याशनेन भक्षणेनेत्येवमादिभिः प्रकारैः कृत्वा म्रियामहे मृत्यु यामः, तद् रुचिरं वरम् , किन्तु पत्तिमात्रस्य सैन्यमात्रस्य पराभवे पराजये सति चिरं स्थिति वनं न भवेन्न प्रियमित्यर्थः // 266 // अथेति अथाऽस्ति दुर्वारविरोधिसाधने महानुपायो निरपायसंश्रयः / ... सदा समाराध्य कुलैकदेवता घनाघनाराधनसाधुसाधनम् // 267 // अथ पुनश्च दुर्वारस्य दुर्जयस्य विरोधिनः शत्रोः साधने प्रतीकारे सदा समाराध्यायाः सेव्यायाः कुलस्य स्वगोत्रस्य एका अद्वितीया देवताः एव घनाघनजलमुचां मेघकुमाराणां आराधनरूपं साधूत्तमं साधनमेव निरपायः निरुपद्रवः संश्रयः आश्रयणं यस्य तादृशः निर्दोषः . महान् कार्यसाधक उपायस्तद्रूपोऽस्ति कुलदेवताप्रसादनमेव शत्रुप्रतीकारोपाय इत्यर्थः // 26 // पर्येति पर्यालोच्येति सर्वे सविधमुपगता रोधसः सिन्धुसिन्धोनग्नत्वोत्तानशायिव्रतविधृतिपरास्तस्थुरेकाग्रचित्ताः / तुष्टास्तद्गोत्रदेव्यः सपदि जलमुचोऽथाष्टमान्ते समेयु यद्वा नो दुष्करं स्यात् किमपि च तपसां भावनाभावितानाम् // 268 // शा. 11