________________ 82 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / ___ इत्युक्तप्रकारेण पर्यालोच्य विचार्य सर्वे शकवीराः सिन्धुसिन्धोः सिन्धुनद्याः रोधसस्तीरस्य सविधम् समीपमुपगताः सन्तः एकाग्रचित्ताः स्वकुलदेवताऽऽराधनमात्रलग्नचित्ताः नग्नत्वस्य दिगम्बरत्वस्य उत्तानशायिनश्च व्रतस्य धारणपरयणाः सन्तस्तस्थुः शकानां कुलदेवतासाधने तथैवोपचारादिति भावः / अथानन्तरमष्टमस्य व्रतस्यान्ते तुष्टाः तदाराधनप्रसन्नाः-'स्तद्गोत्रदेव्यः तेषां शकानां कुलदेवताः तद्रूपा जलमुचः मेघकुमाराः देवास्सन्ति, सपदि तत्कालमेव समेयुः आगच्छन्ति स्म व्रतेन देवतास्तुष्यन्तेवेत्याह-यद्वा यतः तपसां भावनया भावितानां तपोनिष्ठमनसाम् किमपि च देवताप्रसादनादि दुष्करम् दुःसाध्यं नो नैव स्यात् , तपसा सर्वमेव सिद्धयतीति भावः // 268 // देवा इति देवा मेघमुखा. दिवि स्थितिभृतः पोचुः किरताानिदं, .. वत्साः ! सेवनवत्सलाः स्थलमृते किं कारणं नः स्मृतौ ? / ते बद्धान्जलयः प्रणम्रशिरसस्तानेवमावेदयन् , वैताढ्याद्रिमतीत्य कश्चन महाधामा समागादिह // 269 // मेघमुखाः देवाः युध्वा तु स्थलं भूमिमृते विहाय दिवि आकाशे स्थितिभृतः स्थिताः संतः देवानामभूमिस्पृक्त्वादिति भावः / किरातान् शकानिदं प्रोचुः, इदमिति किमित्याह-सेवने वत्सलाः प्रीतिमन्तः ? वत्साः ! नः अस्माकं स्वेष्टदेवतानां स्मृतौ बताराधनादिना स्मरणे किं कारणम् ! तद्वदतेत्यर्थः ते शकाः बद्धाञ्जलयः प्रणवशिरसश्च सन्तः तान् देवान् प्रति एवमावेदयन् , एवमिति किमित्याह-कश्चनाज्ञातनामगोत्रादिः महाधामाऽतितेजस्वी वैताढ्याद्रिमतीत्योल्लअचेह मन्मण्डले समागात् // 269 // ततः किमित्याह-अनेकेति अनेकपस्येव महामहीरुहान् समूलमुन्मूलयतः किरातकान् / तदीयपत्तेर्वयमुद्धृताः परं कथञ्चनाऽपि प्रबलस्य देवताः // 270 // __देवताः ! महामहीरुहान् विशालवृक्षान् अनेकपस्य गजस्येव–“गज-द्वीप-कर्यनेकपाः'इति हैम:-" किरातकान् शकानस्मान् समूलमुन्मूलयतो नाशयतः परमत्यन्तं प्रबलस्य बलवतः तदीयपत्तेः तत्सैन्यस्य सतः वयम् कथञ्चनाऽपि महता कष्टेन पलायनादिना उद्धृताः अवशिष्टाः स्म // 270 // ननु तत्रास्माभिर्देवैः किं करणीयमितिचेत्तत्राह प्रसधेति प्रसद्य तद् रक्षत सद्य एव नः स्वसेवकान् दीनमुखान् कृतार्थनान् / पराभवात् पान्ति निजाश्रितं न ये बलेन तेषां प्रबलेन किं श्रिया ? // 27 //