________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तत्ततो हेतोः सद्य एव प्रसद्य प्रसन्ना भूत्वा कृतार्थनान् विहितप्रार्थनान् दीनमुखान् दीनान् स्वसेवकान् नः शकान् रक्षत यथा न तेन विनाशिताः स्यामेति यावत् / उचितं चैतद्युष्माकमित्याह ये बलिनः पराभवादापदः निजाश्रितं न पान्ति, तेषां प्रबलेनात्युत्कृष्टेन बलेन पराक्रमेण श्रिया ऐवयेण च किम् / निरर्थकमेव तत्सर्वम् , बलादेः आश्रितरक्षणादिरेवोपभोग इत्यर्थः // 271 // निशम्येति निशम्य विज्ञप्तिमिमां तदीरितामुदाहरन् मेघमुखा दिवौकसः / / यदङिय़पूजाप्रवणा विडोजसो न कोऽपि तत्राऽपकृतिक्रियाक्षमः // 172 // तैः शकैरीरितां कथितामिमामुक्तप्रकारां विज्ञप्तिं निशम्य मेघमुखाः तन्नामानो दिवौकसो देवा उदाहरन् जगुः, किमित्याह विडौजसः शक्रा अपि यस्य अङ्ग्रयोश्चरणयोः पूजायां प्रवणाः तत्पराः तत्र तस्मिन् जने कोऽपि देवादिरपि अपकृतिक्रियायां प्रतीकारचेष्टायां क्षमो योग्यो न नैवास्ति // 272 // तथापीति तथापि युष्मत्कुलदेवता वयं भवत्समाराधनतोषिताशयाः / अमुष्य विघ्नाचरणेन निश्चितं प्रकुर्महेऽरं भवतां समीहितम् // 273 // तथापि तत्प्रतिकारासामर्थेऽपि युष्माकम् कुलदेवताः वयम् भवतां समाराधनेन कृत्वा तोषिताशयाः प्रसन्नाश्च, अतः अमुष्य भवद्वैरिणः विघ्नाचरणेनापकारकरणेन कृत्वा भवतां समीहितम् , इष्टमरं शीघ्र निश्चितं यथास्यात्तथा प्रकुर्महे, देवो हि तुष्टः यथाकथञ्चिदपि समीहितं करोत्येवेति भावः // 273 // इतीति इति. प्रपन्ने सति तैः पदानतैः पयोदवृन्दं गगने विकृत्यते / पयोददेवाः किल चक्रवर्तिनस्तदैव सैन्योपरि दृष्टिमादधुः // 274 // इत्युक्तप्रकारेण पदानतैः कृतप्रणामैः तैः शकैः प्रपन्ने स्वीकृते सति ते पयोददेवाः मेघमुखा नागकुमारा देवाः तदा एव, किलेल्यैतिथे, गगने पयोदवृन्दं मेघसमूहं विकृत्य विकुर्व्य चक्रवर्तिनः शान्तेः सैन्यानामुपरि वृष्टिमादधुश्चक्रुः // 274 // ननु स्वस्य तत्प्रतीकारासामर्थ्य जानन्तोऽपि विकुर्वणां कृतवन्तो (कुर्वन्ति स्म) किमिति विरूपं चेष्टितवन्तो देवा इतिचेत्तत्राह जिनेन्द्रेति जिनेन्द्रमाहात्म्यमनन्तमद्भुतम्, सुरैर्विजानद्भिरपि स्वरूपतः / जलानि वर्षद्भिरनेकशस्तदा, जडाशयत्वं प्रकटीकृतं न किम् ? // 275 / /