________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः। सुरैः देवैः मेघकुमारैः स्वरूपतः याथातथ्येनानन्तमद्भुतमलौकिकञ्च जिनेन्द्रस्य शान्तिजिनस्य माहात्म्य सामर्थ्य विजानद्भिरपि सद्भिः अनेकशः बहुशः जलानि वर्षद्भिः तदा तस्मिन् काले जडाशयत्वं मन्दबुद्धित्वं प्रकटीकृतं किं न, अपि त्ववश्यमेव प्रकटीकृतम् , स्वासामध्यें जानन्नपि जडं विहाय नान्यः कोऽपि प्रवर्तते किञ्च मेघानां डलयोरैक्याज्जलाशयत्वमुचितमेवेति भावः // 275 // सैन्येति सैन्यप्लावनवासनाव्यवसितं पूरं समीक्ष्याऽम्भसां, पुंरत्नेन करेण सत्त्वकरुणापाथोजिनीभानुना / स्पृष्टं द्वादशयोजनानि वधे चर्माख्यरत्नं तदा, लाध्यः किं न महात्मनां हि महिमा विश्वत्रयोदद्योतकः ? // 276 // . . अम्भसां देववृष्टानां जलानां पूरं प्रवाहं सैन्यानां प्लावनस्य जलमग्नकरणस्य वासनयेच्छया व्यवसितं प्रवृत्तं समीक्ष्य सत्त्वेषु प्राणिषु करुणैव पाथोजिनी कमलसमूहस्तस्य (कमलिनी तस्याः) भानुना विकासकत्वाद्रक्षकत्वाच्च सूर्यतुल्येन पुरत्नेन पुरुषोत्तमेन शान्तिजिनेन करेण स्वहस्तेन कृत्वा तदा पूरागमनसमये स्पृष्टम् कृतस्पर्शम् चर्माख्यरत्नं चर्मरत्नं द्वादशयोजनानि यावद्ववृधे प्रस्तीर्णम्, एवम्भवने च तन्महिमैवाधिकृत इत्याह-हि यतः महात्मनां शान्तिनाथचक्रवर्तिसदृशानां पुरुषोत्तमानां विश्वत्रयस्योद्योतकः प्रकाशको महिमा श्लाध्यः प्रशस्यो लोकातिशायी किं न, अपि तु लोकातिशाय्येव महात्मनो महिमाऽचिन्त्यप्रभाव इति यावत् / 276 / तत्रेति तत्रारोह चतुरङ्गसमग्रसैन्यं, शान्तिप्रभोः समधिगम्य नियोगमाशु / तद् वारिपूरमुपरि स्थितिमाततान, यत् तय॑ते प्रवहणं वरुणोपनीतम् / 277 / तत्र चतुरङ्गात्मकं हस्त्यश्वरथपदातिरूपं समग्रं सर्वमेव सैन्यमाशु शान्तिप्रभोः नियोगमादेशं समधिगम्य प्राप्य आरुरोह तच्चर्मरत्नञ्च वारिपूरमुपरिजलप्रवाहोपरि स्थितिमाततान स्थितम्, यच्चर्मरत्नम् वरुणेन जलदेवेनोपनीतमुपहृतं प्रवहणं नौः तय॑ते, मन्यते वरुणोपहृतपोतवत्तद्वभासे इत्यर्थः // 277 // द्वादशेति-- द्वादशपमितयोजनायतिच्छत्ररत्नमपि चर्मरत्नवत् / स्पृष्टमात्रमथ चक्रिपाणिना सैन्यचक्रमुपरि स्थितं स्थिरम् // 278 // एवमधःस्थितजलाद्रक्षणमभिधाय वृष्टे रक्षणमाह-अथानन्तरम् चक्रिपाणिना शान्तिजिनेन चक्रवर्तिहस्तेन चर्मरत्नवत्स्पृष्टमात्रमेव स्पर्शनत एव छत्ररत्नमपि द्वादशप्रमितानि योजनानि याव