________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुत : दायति विस्तृतं सत् सैन्यचक्रमुपरि सैन्यसमूहस्योपरिष्टात् स्थिरं यथास्यात्तथा स्थितम् यथा न वृष्टिः सैन्योपरि निपतेदिति भावः // 278 // मयीति मयि प्रभौ जाग्रति मा बहिष्टनं, तमोऽपि बाधिष्ट जनं कदाचन / इतीव चक्री मणिरत्नमुन्नताऽऽतपत्रदण्डोपरि तत्क्षणं दधौ // 279 // - मयि शान्तिजिने प्रभौ जाग्रति रक्षोद्यते सति जनं सैन्यं बहिष्टनं बाह्यं तमोऽन्धकारोऽपि कदाचनापि मा बाधिष्ट पीडयतु इति बुद्ध्या इव चक्री शान्तिजिनः तत्क्षणम् उन्नतस्यातपत्रस्य छत्रस्य दण्डस्योपरि मणिरत्नं दधौ यथा तत्प्रकाशेन तमोनाशो जायतामिति भावः // 279 // अथ तदाहारसम्पत्तिमाह गेहेति गेहरत्नकरणेन रसोप्ताः शालयो दिनमुखे सति तत्र / घस्र एव फलिता गलितार्धे सैनिकैचुभुजिरे प्रतिघस्रम् // 280 // गेहरत्नस्य करणेन दिव्यभोजनापादनक्षमेण गृहिरत्नविधानेन कृत्वा तत्र चर्मरत्ने दिनमुखे प्रभाते सति शालयः ब्रीहयः-तदुपलक्षितसर्वजातीयधान्यसमस्तस्वादुसहकारादिफलसकलशाकविशेषाश्च-रसायां पृथिव्यामिवोप्ताः क्षिप्ताः सन्तः गलितार्धे व्यतीतार्धे घस्र दिने एव तस्मिन्नेव गतार्द्ध दिवसे फलिताः फलसम्पद्युक्ताः सैनिकैः प्रतिघनं प्रतिदिनं बुभुजिरे भोजयन्ति स्म भक्षिताः, एवञ्च न तेषां भोजनकष्टमप्यभूञ्जिनमाहात्म्यादिति भावः / चर्मरत्ने च सुक्षेत्रइवोप्तानि दिवामुखे / सायं भोज्यान्यजायन्त, गृहिरत्नप्रभावतः / 1 / इति प्रथमपर्वण्युक्तम् // 280 // .. वारीति वारिपूरतरदद्भुतचर्म-रत्नमध्यमधिशय्य ससैन्यः / वासरान् गमयति स्म स सप्त, तारयन्निव जनं भवसिन्धोः // 281 // स शान्तिजिनः ससैन्यः सैन्यसहित एव वारिपूरे जलौघे तरतः उपरि स्थितवतः-प्रासादमध्ये स्वस्थस्थित इव स्थित्वा, अद्भुतस्यालौकिकस्य चर्मरत्नस्य मध्यमधिशय्याश्रित्य भवसिन्धोः जनं तारयन् पारं गमयन्निव सप्त वासरान् गमयति व्यत्याययति स्म // 281 // तत इति ततो भ्रकुटिभीषणा विधृतहेतयो यक्षकाः सुरानिदमवादिषुः प्रभुजुषो व्रजित्वा द्रुतम् / अरे ! घनकुमारकाः किमिदमात्मबोधे जड़ा ! भवद्भिरसुरैरिव व्यवसितं प्रभावच्युते ? // 282 //