________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः। ततः शान्तौ चर्मरत्ने स्थितवति सति भ्रकुटिभिः भ्रवां रोषजनितैः कौटिल्यैः कृत्वा भीषणा भयङ्करा विधृतहेतयः गृहीतायुधाः प्रभुजुषः शान्तिजिनसेविनः यक्षका यक्षाः द्रुतं ब्रजित्वा गत्वा सुरान् मेघकुमारान् इदमवादिषुः, इदमिति किमित्याह-अरे ! आत्मबोधे स्वरूपपरिचये जडा अल्पधियः घनकुमारकाः मेघकुमारकाः कुत्सिता मेघकुमाराः भवद्भिरसुरैरिवानुचिताचरणपरायणैः इदम् जिनापकाररूपम् प्रभावच्युते प्रभावरहिते सति यद्वा निमित्तसप्तमी स्वमहत्वनाशनिमित्तं-इदम् स्वमहत्वनाशाय व्यवसितम् कृतं किम् ? जिनापराधे भलतां प्रभावच्युतिः सम्भाव्यते इत्यर्थः // 282 // . विधीति-- विधीयमानादुरनर्थकारणं, महात्मभिः सार्धमहो ! विरोधिता। तथाहि पक्षक्षतिमापिरेऽद्रयो, महाविरोधेन हरेः प्रवादिवत् // 283 // बलवद्विरोधिता दुरन्तेत्याह अहो ! इति खेदे, महात्मभिः उत्तमैः सार्धं विधीयमाना विरोधिता विरोधः दुष्टस्यानर्थस्य कारणमस्ति, तत्र दृष्टान्तमाह-तथाहि यथा हरेरिन्द्रस्य महता विरोधेन विद्वेषेण अद्रयः पर्वताः प्रवादिवत् वादे पूर्वपक्षिवत् पक्षााणां पतत्त्राणाम् अथ च स्वस्वीकृतसिद्धान्तानां क्षति खण्डनमापिरे प्राप्ताः, पुरा पर्वताः सपक्षा आसन्, इन्द्रेण हि स्वविरोधात्तेषां पक्षाच्छिन्ना इति पौराणिकाः // 283 // शान्तेर्महत्त्वमेवाह वहन्तीति वहन्ति मालामिव यस्य शासनं निजेन मूर्नाऽखिलपाकशासनाः / अनन्तवीर्यपचयेन चक्रिणा, सुधीविरोधं विदधाति तेन कः ? // 284 // यस्य शान्तिचक्रिणः शासनमाज्ञाम् अखिलाः पाकशासनाः शक्राः निजेन स्वीयेन मू| मस्तकेन मालाविव प्रीत्या वहन्ति स्वीकुर्वन्ति, तेन अनन्तानां वीर्याणां सामर्थ्याणां प्रचयेन–अनन्तानि च वीर्याणि अनन्तवीर्याणि तेषां प्रचयः समूहो यस्य तेन शारीररूपेण चक्रिणा शान्तिचक्रिणा कः सुधीः धीमान् विरोधं विदधाति ? न कोऽपि, किन्तु भवादृशा मूर्खा एवेत्यर्थः // 28 // वयमिति वयं न मन्तुं भवतामतः परं, सुराः सहिष्यामह एव भासुराः। इतीरितास्तैः समहाषुराविला, बलाहकानां पटलं तदैव ते // 285 // सुराः ! मेघकुमाराः ! अतः चेतवाणीतः परं पश्चात् भासुराः तेजस्विनो वयं यक्षाः भवतां मेधकुमाराणां मन्तुमपराधं "-आगोऽपराधो मन्तुश्चे" त्यमरः / नैव सहिष्यामहे, किन्तु प्रतिकरिष्यामः, तैः यक्षैः इत्युत्यप्रकारेण ईरिताः कथितास्ते मेघकुमाराः आविलाः भयाद्विह्वलाः सन्तः तदैव बलाहकानां मेघानां पटलं समूहवैकुर्विकं समहाघुः संहरन्ति स्म // 285 // .