SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सार्वेतिसार्वभौमपरभागवर्णनाकौमुदीपकटनेन ते ततः / म्लेच्छमानसनिवासनिश्चलं मानतापमपनिन्युरञ्जसा // 286 // ततो विकुर्वणा संहरणानन्तरम् , ते मेघकुमाराः सार्वभौमस्य सर्वभूमेरीश्वरस्य चक्रिणः शान्तेः परभागस्य गुणोत्कर्षस्य “परभागो गुणोत्कर्ष इति हैमः” वर्णनायाः स्तुतिरूपायाः कौमुद्याः चन्द्रिकायाः प्रकटनेन कृत्वा म्लेच्छे मलिने मानसे निवासेन स्थित्वा निश्चलं स्थिरं मानमहङ्काररूपं तापं धर्ममञ्जसा स्वल्पश्रमेणैवापनिन्युरपाकुर्युः, कौमुद्युदये हि तापनाश उचित एव, सुरास्तं विगर्वाः सन्तः तुष्टुवुरित्यर्थः // 286 // अथो इतिअथो किराता मणिकाञ्चनोत्करै-रनयचित्राभरणैरपि प्रभुम् / भृशं लुठन्तः पदपद्मयोः पुरो वितेनिरे प्रीतमरीणभक्तयः // 287 // अथो-अनन्नरम् किराताः शकाः अरीणा अशून्या पूर्णा भक्तिर्येषां तादृशाः सन्तः पदपद्मयोः शान्तिचरणकमलयोः पुरः अग्रतः भृशमतिशयेन लुठन्तः प्रणमन्तः प्रीतं स्तवननमनादिभिः प्रसन्नं प्रभुं शान्तिचक्रिणं मणीनां काञ्चनानाञ्चोत्करैः राशिभिः अनध्यः चित्रैर्बहुविधैराभरणैरपि च वितेनिरे सिषेविरे // 287 / / समिति संमान्यतानुपहृतनयः पृष्ठहस्तप्रदानाच्चक्री सेनापरिवढमहारत्नसंप्रेषणेन / लोकान् पुत्रानिव विगणयन् साधयामास सिन्धो रौदिच्यं श्रीगृहमविकटं स्वौजसा निष्कुटं तम् // 288 // उपहृतनयः पुरस्कृतनीतिः राजनीतिज्ञ इत्यर्थः, चक्री शान्तिजिनः पृष्ठे हस्तस्य प्रदानादारोपणात् , एतान् किरातान् सम्मान्य सत्कृत्य सेनापरिवृढेषु सेनापरिवृढस्य सेनानायकस्य सेनापतेः सेनापतिषु महारत्नस्य तद्रूपस्योत्तमस्य तद्रूपमहारत्नस्य संप्रेषणेन "नायको नेता प्रभुः परिवृढोऽपि च" इत्यमरः तद्रूपस्योत्तमस्य सेनापतेः संप्रेषणेन कृत्वा लोकान् किरातप्रजाः पुत्रानिव विगणयन् मन्यमानः सन् अविकटम्-अविकटं यथास्यात्तथा श्रीगृहं लक्ष्मीगृहरूपं धनसम्पन्नम् तम् सिन्धोस्तदाख्यनद्याः औदीच्यमुत्तरस्थं निष्कुटं स्वस्य ओजसा प्रतापेन साधयामास वशीकृतवान् // 288 / / पतमिति एतं क्षुद्रहिमाद्रिनामकगिरिं कुर्वन्तमभ्वापगासिन्ध्वोरन्तरमाकुलं कलकलैः सेनासमूहोद्भवैः /
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy