________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / रत्नैः पद्मनदाम्बुभिर्विभुमसौ गोशीर्षकैश्चन्दनैः, संतुष्टो हिमवत्कुमार उरुधीरभ्यर्चयामासिवान् // 289 // एवमुक्तप्रकारेण ऋभ्वापगासिन्ध्वोः गङ्गायाः सुरनिम्नगा गङ्गात्यर्थः तस्याः सिन्धोश्चान्तरम् मध्यस्थम् क्षुद्रहिमादिनामकगिरिम् सेनासमूहोद्भवैः कलकलैः कोलाहलैः आकुलं व्याप्तं कुर्वन्तम्, ससैन्यं तत्र गतमिति यावत् विभुं शान्तिनाथम् उरुधीः विशालबुद्धिः सन्तुष्टः असौ हिमवत्कुमारः पद्मनदस्य हिमादिस्थितपमनदस्याम्बुभिजलैः गौशीर्षकैः चन्दनैः गोरोचनायैः रत्नैश्चाभ्यर्चयामास // 289 // स्वामीतिस्वामी जवादृषभकूटमहामहीध्र, गत्वैव काकिणिमणिं परिगृह्य धीरः। शान्तिश्विरं जयति पञ्चमचक्रवर्ती-त्येतल्लिलेख स निजेन करेण वर्णान् // 290 // धीरः स स्वामी शान्तिचक्री जवाद्वेगादृषभकूटे तदाख्ये महति महीधे पर्वते गत्वा काकिणिनामधेयं मणिं परिगृह्य निजेन करेणैव पञ्चमचक्रवर्ती शान्तिश्चिरं जयतीत्येतान् वर्णान् लिलेख ऋषभकूटे एवेति प्रत्यासत्या लभ्यते // 290 // विस्मेति विस्माययन सकलसैनिकमानसानि भास्वत्मतापकलितेन पराक्रमेण / भूमीभृतः प्रतिनित्य रथस्थ एव वैताढयमाप पुनरेष ततः क्रमेण // 291 // ततः एष शान्तिचक्री भूमीभृतः ऋषभकूटपर्वतात्प्रतिनिवृत्य भास्वता तपता प्रतापेन कलितेन सहितेन पराक्रमेण सकलानां सैनिकानां मानसानि विस्माययन् विस्मितानि कुर्वन् रथस्थो रथारूढ एव पुनः वैताढयमाप प्राप // 292 / / तत्रति तत्र प्रमोदपरिपूरितचित्तवृत्तिविद्याधराधिपतिभिः स्वयमभ्युपेतम् / संपूज्य चैनममराचलचूलिकायां वैताढयभूमिभृदमानि समुच्चसानुः // 292 // तत्र वैताढये स्वयमभ्युपेतमागतमेनं शान्तिचक्रिणममराचलस्य सुमेरोशूलिकायां शिखरे सम्पूज्य प्रमोदेन परिपूरितचित्तवृत्तिभिः विद्याधराधिपतिभिः वैताढयभूमिभृत् वैताढयपर्वतः समुच्चं सानु प्रस्थो यस्य स तादृशोऽमानि मन्यते स्म, स्वयमुच्चो वैताढयसानुः शान्तिसङ्गेन समुच्चोऽमानीत्यर्थः / एतदेव समुच्चत्वं यन्महात्मसमागम इति भावः // 292 // चक्रीति चक्री गङ्गातटमुपगतः सेवितो भक्तिपूर्व, गङ्गादेव्या विरचितमहापाभृतप्राज्यभङ्गया /