________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सेनान्याऽथ प्रथितयशसाऽसाधयत् साधुधाम्ना, गाङ्ग रङ्गटपरिवृतो निष्कुटं चोत्तरं सः // 293 // गङ्गायास्तटमुपगतः चक्री शान्तिनामा गङ्गादेव्या विरिचत उपहृतो यो महाप्राभृतः विशिष्टोपहारः तद्रूपा प्राज्या प्रचुरा भङ्गी विधिर्यथाविधिस्तया कृत्वा तया सत्या भक्तिपूर्व सेवितः पूजितः अथानन्तरम् रङ्गद्भिः अनुरक्तैः भटैः परिवृतः स शान्तिः साधुधाम्ना महौजसा प्रथितयशसा ख्यातकीर्तिना सेनान्या सेनापतिना कृत्वा गाङ्गम् गङ्गाया उत्तरं निष्कुटं देशमसाधयद्वशीकृतवाँश्च // 293 // श्रीति श्रीशान्तिप्रभुरोजसामधिनिधिः खण्डमपाताभिधदर्या नायकनाट्यमालममरं कृत्वा वशे स्वस्य च / सेनान्याऽतिविभासिदण्डमणिनोद्घाट्याऽविशत् तां गुहां, तेजोऽत्यर्यम चक्ररत्नमनु यान् न्यायं नृणां दर्शयन् // 294 // ओजसामधिनिधिः तेजोनिधिः श्रीशान्तिप्रभुः खण्डप्रतापाभिधाया दर्या गुहाया नायक पति नाट्यमालं तदाख्यममरं सुरं स्वस्य वशे कृत्वा च अतिविभासी महातेजस्वी दण्डमणिः दण्डरत्नं तेन कृत्वा सेनान्या-(सेनापतिद्वारा अतिविभासी महातेजस्वी यो दण्डमणिर्दण्डरनं तेन कृत्वा) सेनापतिना तां गुहामुद्घाट्य तेजसाऽतिक्रान्तोऽर्यमा सूर्यो येन तम् चक्ररत्नमनु पश्चाद् यान् गच्छन् नृणां न्यायं नीतिं दर्शयन् शिक्षयन् अविशत्प्रविष्टवान् // 29 // काकिणीति-- काकिणीमणिनिदानमण्डलैः संहरंस्तिमिरमण्डलं विभुः / तेजसा मणिभवेन पूर्ववत् संचचार स च तत्र कन्दरे // 295 // काकिणीमणिः निदानं मूलं येषां मण्डलानां एकोनपश्चाशत्सङ्खयकैः कृत्वा विभुः स शान्तिः तिमिरमण्डलमन्धकारसमूहं संहरन् नाशयन् मणिभवेन मणिरत्नजेन तेजसा कृत्वा तत्र कन्दरे खण्डप्रपाताभिधे पूर्ववत् संचचार // 295 // उत्ततारेति उत्ततार तरसा स निमग्नोन्मग्ननामसरितौ सह सैन्यैः / पद्यया प्रथमयाऽप्यनवद्यः सर्वमेव महतां सुघटं यत् // 296 // . स शान्तिरनवद्यः उत्तमः प्रथमया मुख्यया पद्यया रचितसेतुमार्गेण सैन्यैः सह तरसा वेगेन निमग्नोन्मग्नानाम्न्यौ सरितौ नद्यावुत्ततारोल्लङ्घयामास, ननु किमिति उत्तरणे विघ्नो न जातइति चेत्तत्राह-यद्यतः महताम् पुरुषोत्तमानां सर्वं तरणादि सुघटमनुकूलस्थितं भवति // 296 // शा. 12 -