________________ 90 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः। आत्मेतिआत्मनोद्घटितदक्षिणलक्ष्मीद्वार एव निरगात् स गुहायाः / चन्द्रमा इव तमांसि निहन्ता पूर्वभूमिधरदीर्घगुहायाः // 297 // स शान्तिचक्री पूर्वभूमिधरस्योदयाचलस्य दीर्घाया गुहायास्तमांसि निहन्ता विनाशनशीलः चन्द्रमा इव गुहायाः खण्डप्रपातगुहायाः आत्मना स्वयमेव उद्घटितायाः निरर्गलतामाप्तायाः दक्षिणस्याः लक्ष्मीद्वारः लक्ष्मीद्वारतः एव निरगात् निःसृतवान् // 297 // गङ्गेति गङ्गातीरनिवासिनः समभवन् नैसर्पमुख्याः प्रभोगङ्गाऽऽस्यस्थितिशालिनोऽपि निधयो वश्याः प्रसिद्धा नव / गाङ्गं दक्षिणनिष्कुटं स पृतनाधीशेन शिष्टिश्रिता, म्लेच्छाकीर्णमसाधयद् बलबतां त्वेषां ततो दुर्जयम् // 298 // गङ्गातीरनिवासिनः नैसर्पमुख्याः नैसर्पादयः गङ्गाया आस्ये मुखे स्थितिशालिनः स्थिताः प्रसिद्धाः नव निधयः प्रभोः शान्तेः वश्या अधीनाः समभवन् जाताः / ततोऽनन्तरम् स शान्तिः शिष्टिश्रिता निदेशवर्तिना पृतनाधीशेन सेनापतिना कृत्वा त्वेषामन्येषां बलवतां दुर्जयम् जेतुमशक्यं म्लेच्छैराकीर्णं व्याप्तं दक्षिणं निष्कुटं देशमसाधयत् // 298 // पडिति षट्खण्डानि विभुर्विजित्य भरतस्यैवं प्रतापानलज्वालाजालसमुच्चयेन सकलं प्लुष्ट्वाऽभिमानं द्विषाम् / व्यावृत्तः स्वपुरं विवेश विलसत्पौराङ्गनाभिर्मुदा, लाजोत्क्षेपनिरुछनेषु सरसं व्यातन्यमानेष्वयम् // 299 // विभुः शान्तिः एवमुक्तप्रकारेण भरतस्य तदात्यक्षेत्रस्य षट्खण्डानि विजित्य स्ववशे कृत्वा प्रताप एवासदृशत्वादनलः तस्य ज्वालाजालानां समुच्चयेन राशिना द्विषां शत्रणां सकलमभिमानं प्लुष्ट्वा दग्ध्वा शत्रुगर्व खण्डयित्वेत्यर्थः निहत्येत्यर्थः व्यावृत्तः परावृत्तोऽयं शान्तिः विलसन्तीभिः शोभमानाभिः पौराङ्गनाभिः पौरस्त्रीभिः मुदा हर्षेण सरसं सानुरागं यथास्यात्तथा लाजानामुत्क्षेपेषु निरुञ्छनेषु च व्यातन्यमानेषु क्रियमाणेषु सत्सु स्वपुरं विवेश स्वपुरप्रवेशं कृतवान् // 299 // केतनैरिति केतनैः पवनचञ्चलभागैर्नागरैर्विनिहितैः प्रतिहट्टम् / तर्जयव सुरपुरं यदि वाऽभाव सोऽविशद् गजपुरं तदधीशः // 30 //