________________ सर आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् * अधीशः स्वामी स शान्तिः प्रतिहट्ट प्रतिविपणिश्रेणि नागरैः विनिहितैः स्थापितैः पवनेन कृत्वा चञ्चलभागैः चञ्चलैः केतनैः ध्वजैः कृत्वा सुरपुरं स्वर्ग तर्जयद्भर्त्सयदिवाभात् प्रतिभाति स्म, तद् हस्तिनापुरमविशत् प्रविशेश // 300 // सुरेति सुरासुरैस्तस्य च चक्रवर्तिता-पदाभिषेको विधिवद् विनिर्ममे / नृपैः समं संमदपूर्णमानस-रशेषतीर्थोपहृतैमृदम्बुभिः // 301 // सुरैरसुरैश्च नृपैः समं सह संमदेन पूर्णमानसैः सद्भिः अशेषेभ्यः सर्वेभ्यस्तीर्थेभ्य उपहृत्तैरानीतैः मृद्भिरम्बुभिश्च विधिवद्यथाविधि तस्य शान्तेश्चक्रवर्तितापदस्याभिषेको विनिर्ममे चक्रे // 301 // समिति संवत्सरा द्वादश जग्मुरेषकां, भव्याभिषेकोत्सवमेव कुर्वताम् / आसीत् पुरं तावदमन्दसंमदं शुल्केन दण्डेन करेण चोज्झितम् // 302 // एषकामेषां सुरादीनाम् भव्यमुत्कृष्टमभिषेकस्योत्सवमेव कुर्वतां सताम् द्वादश संवत्सरा जग्मुर्व्यतीयुः - तावत्तदवधि अमन्दसंमदमतिहर्षसङ्कुलं पुरं हस्तिनापुरं शुल्केन वस्तुनो मूल्येन जकात इति ख्यातेन राजग्राह्यभागेन वा दण्डेन अपराधस्य निग्रहेण करेण कर्षकादिभ्यो राजग्राह्यभागेन चोज्झितं रहितमासीत्, तावद्विना मूल्यमेव क्रय्यं वस्तु मिलति स्म, तथा दोषेऽपि सति न केऽपि दण्डिता भवन्ति स्म, कररहिताश्च प्रजा आसनित्यर्थः // 302 // यक्षाणामिति यक्षाणां समभूत् सहस्रयुगलं बद्धोद्यमानां प्रभोरङ्गानामवनस्थितौ निरुपम सौन्दर्यमाक्रामताम् / रक्षाव्यापृतिलालसा नहि परे तस्य श्रुतास्तादृशः, पोक्ता चक्रभृतः स्थितिः पुनरियं षट्खण्डभूमीशितुः // 303 // प्रभोः शान्तिचक्रिणः अङ्गानाम् अवनमेव स्थितिः तस्यां, रक्षणक्रियायामित्यर्थः बद्धोद्यमानाम् उद्यमतत्पराणाम् निरुपममसाधारणं सौन्दर्यमाक्रामताम् प्राप्नुवताम् गच्छताम् अनुपमसौन्दर्यशालिनां यक्षाणाम् सहस्रयुगलं समभूत्, सहस्रद्वयसङ्ख्यकाः अभिरूपाः यक्षाः शान्त्यगरक्षका अभवनित्यर्थः / हि यतः तस्य शान्तिचक्रिणः तादृशः यक्षतुल्याः परे यक्षभिन्नाः रक्षाव्यापृतौ रक्षणक्रियायाम् लालसाः रागवन्तः न श्रुताः प्रसिद्धाः किन्तु यक्षा एव तादृशः प्रसिद्धा इति भावः नन्वन्येषामप्येतादृशा अङ्गरक्षका भवन्ति किन्न भवन्ति ? किमिति चेत्तत्राह-- इयमुक्तप्रकारा स्थितिः मर्यादा षण्णां खण्डानां भूमीशितुः चक्रभृतः पुनरेवार्थे चक्रिण एवेत्यर्थः .. प्रोक्ता नान्यस्येत्यर्थः // 303 //