________________ 9.2 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / पकैकेनेति एकैकेन सहस्रकेण परितः प्रत्येकमाभासितैयक्षाणामधिपश्चतुर्दशभिराभाति स्म रत्नविभुः। रागादेत्य सरस्वतीभिरचलाश्लेषं श्रिताभिर्मुहुः पारावार इवाऽपरार्थविभवो मर्यादयाऽऽलम्बितः // 304 // अधिपश्चक्री विभुः शान्तिः परितः प्रत्येकम् यक्षाणामेकेकैन सहस्रकेण आभासितैः शोभमानैः चतुर्दशभिः रत्नैः कृत्वा आभाति शोभते स्म / प्रत्येकं रत्नं सहस्रेण यक्षेण रक्षितं तादृशैः प्रसिद्धैः चतुर्दशभी रत्नैः शान्तिः शोभते स्मेत्यर्थः / मुहुः पुनः रागात् गुणानुरागादेत्यागत्य सरस्वतीभिः चतुर्दशविद्याभिः अथ च नदीभिः, अचलं स्थिरमाश्लेषं संसर्ग श्रिताभिः आश्रिताभिः अथ च वेलातटाद्यवधिना, आलम्बितः सहितः, मर्यादापालकः, अथ च मर्यादाऽनुल्लङ्घकः इति चार्थः / न परोऽधिको यस्मात्तादृशोऽर्थविभवः वस्तुसमृद्धिर्यस्य स तादृशः, एकत्र चक्रित्वादन्यत्र रत्नाकरत्वाञ्चेति भावः / अत एव, पारावार इव समुद्र इव, आभाति स्मेति सम्बध्यते, श्लेषमूलोपमा // 304 // निधिभिरिति निधिभिर्नवभिः समाश्रितः प्रभुरङ्गैरिव दृकुसुखावहै। .. अथवा महतामुपासनाद् गुरुतां प्राप्तुमतन्द्रिता न के ? // 305 // प्रभुः शान्तिचक्री नवभिः नवसङ्ख्यकैः निधिभिः नैसर्पादिभिः दृक्सुखावहैः लोचनप्रियैः अङ्गैरिव समाश्रितोऽभवत् , ननु किमिति नवनिधय एनं शिश्रियुरिति चेत्तत्राह-अथवा यतः महतांमहात्मनामुपासनात्सेवां विधाय गुरुतां महत्वं प्राप्तुं के न अतन्द्रिता अनलसाः, सोद्योगा इति यावत् , अपि तु सर्व एव, स्वमहत्वलाभायैव निधय एनं महान्तं शिश्रियुरिति महामहिमा अयमिति भावः // 305 // अन्तरिति अन्तःपुराणां च सहस्रकैश्चतुःषष्टयाऽऽश्रितः संश्रितकल्पपादपः। नागैर्हयैश्चापि रथैर्मदोद्धतैः कोटयाऽऽनृतः पोडशलक्षहीनया // 306 // . संश्रितः कल्पपादपः कल्पवृक्षः यं स तादृशः कल्पवृक्षस्यापि सेव्यः, ततोऽप्यधिकशक्तिशालित्वादिति भावः, शान्तिचक्री. अन्तःपुराणामवरोधानाम् चतुष्षष्टया सहस्रकैः चतुष्पष्टिसहस्रपुरस्त्रीभिः आश्रितश्च, अभूदिति शेषः / तथा, मदोद्धतैः मत्तैः नागैः गजैः “मत्तङ्गजो गजो नाग" इत्यमरः / हयैरश्वैः रथैश्चापि षोडशलक्षहीनया षोडशलक्षन्यूनया कोट्या कोटिसङ्ख्यया, चतुरशीतिल:रित्यर्थः, आवृत आसीत् // 306 //