________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ 93 .ग्रामा इति ग्रामाः षण्णवतिप्रमाः समभवन् कोटयः प्रभोः पत्तिवद् , द्वात्रिंशच्च महीभुजामिव सहस्राणि ध्रुवं नीवृताम् / सूदानां च शतत्रयं गुणवतां जज्ञे त्रिषष्टयुत्तरं तस्य श्रेणिपदप्रसिद्धिविभृतः प्रश्रेणयोऽष्टादश // 307 // तस्य प्रभोः शान्तिचक्रिणः षण्णवतिप्रमाः कोट्यः षण्णवतिकोटिप्रमाणा ग्रामाः करवन्तः समभवन् तथा पत्तिवत् सैनिकवन्निदेशाधीनानाम् महीभुजामिव निवृतां देशानाम्-'देशो जनपदो निवृदिति' हैमः; द्वात्रिंशद्सहस्राणि च ध्रुवमभवन् आज्ञावर्तिनां राज्ञां देशानाञ्च द्वात्रिंशत्सहस्राण्यभवन्नित्यर्थः / सूदानां गुणवतां त्रिषष्टयुत्तरशतत्रयं जज्ञे अभूवन् / तथा प्रश्रेणयो-श्रेणिपदप्रसिद्धिं बिभ्रतीति तथा विभ्रतोऽष्टादश समभवन्-अष्टादशश्रेणीश्चैवमाहुः " कुंभार 1 पट्टइल्ला 2 सुवण्णकारा 3 य सूवकारा 4 य / गंधवा 5 कासवगा 6 मालाकारा 7 य कच्छकरा 8 // 37 // तंबोलिया 9 य एए नवप्पयारा नारुआ भणिया / अह णं णवप्पयारे कारुअवण्णे पवक्खामि // 38 // चम्मयर 1 जंतपीलग 2 गंच्छिय 3 छिपयग 4 कंसकारा य 5 / सीवग 6 गुआर 7 भिल्ला 8 धीवर 9 वण्णाई अट्ठदस // 39 // " इत्युक्तं काललोकप्रकाशे एकत्रिंशत्सर्गे // 307 / / अष्टेतिअष्टादशाङ्कगुणिताब्धिसहस्रसंख्यान्यासन् प्रभोरनुपमानि महापुराणि / द्रोणादिभूतपदकानि मुखानि लक्षं न्यूनं पुनर्भवति तद् दशभिः शतैश्च // 308 // प्रभोः शान्तेः अष्टादशरूपेणाङ्केन गुणितो योऽब्धिः चत्वारः द्वासप्ततिरिति यावत् , तावत्सहस्रसङ्ख्यानि महापुराणि आसन् , तथा, द्रोणः द्रोणशब्दः आदिभूतं पदं येषां तानि मुखानि द्रोणमुखानि लक्षं लक्षसङ्ख्यकं भवति, पुनः किन्तु तल्लक्षं दशभिः शतैः सहस्रणेत्यर्थः, न्यूनं रहितं च नवनवतिसहस्राणीत्यर्थः // 308 // श्राद्धेति श्राद्धव्रतैर्गुणितवाधिसहस्रकाणि नेतुर्वभूवुरपराण्यपि पत्तनानि / तावन्ति कवटमडम्बकवाच्यनाम्नां संमीलितान्यपरिमेयसमृद्धिभाजाम् // 309 // __नेतुः शान्तिचक्रिणः अपराण्यन्यान्यपि श्राद्धस्य श्रावकस्य व्रतैः गुणितो यो वार्धिः चतुःसङ्ख्या तावत्सहस्रकाणि अष्टाचत्वारिंशत्सहस्राणि बभूवुः तथा, अपरिमेयसमृद्धिभाजामग