________________ श्रीशान्तिनाथमहाकाव्यम्-चतुदर्शः सर्गः / णितसम्पत्तिशालिनाम् कर्वटमडम्बकवाच्यानि नामानि येषां तेषां कर्वटानां मडम्बकानाञ्च तावन्ति पतनसमसङ्ख्याकानि अष्टचत्वारिंशत्सहस्रकाणि संमीलितानि बभूवुः // 309 // जाग्रदितिजाग्रत्पभाप्रसररत्नमुखाकराणां, स्वामी स्म पालयति विंशतिमासहस्रान् / विज्ञातशक्तिरपि षोडश खेटकानां, सम्बन्धकीर्तनभृतां च चतुर्दशाऽपि // 310 // विज्ञातशक्तिः प्रसिद्धसामर्थ्यः स्वामी शान्तिप्रभुः जाग्रतः भासमानाः प्रभाप्रसराः / प्रभावविस्तारा येषां तादृशानाम् उज्ज्वलकान्तीनाम् रत्नं मुखं प्रधानं येषां तादृशानामाकराणाम् खनीनाम् रत्नायाकाराणाम् आसहस्रान् विंशतिं विंशतिसहस्राणि पालयति स्म तथा खेटकानां धूलिप्राकारोपेतानां षोडशसहस्रान् तथा सम्बन्धकीर्तनभृताम् चतुर्दशसहस्राँश्चापि पालयति स्म // 310 // पडिति षट्पञ्चाशतमन्तरोदकगिरां स्वामी शशास स्वयं, राज्यानां कुलवासिनां पुनरयं चैकोनपञ्चाशतम् / षट्खण्डानि यथावदेव भरतस्यैवं प्रभुः पालयं श्चक्रित्वे गमयाम्बभूव समयं राज्याप्तिवत् भोगभृत् // 311 // पुनस्तथा अयं स्वामी शान्तिचक्री स्वयमेव अन्तरोदकगिरां अन्तीपानां षट्पञ्चाशतम्, कुलवासिनां राज्यानाञ्चैकोनपञ्चाशतम् शशास पालयामास, तथा, प्रभुः शान्तिः एवमुक्तप्रकारेण भरतस्य षट्खण्डानि यथावद्विधिवदेव पालयन् चक्रित्वे राज्याप्तिवत् राज्यप्राप्तिवत् भोगभृत् सुखमनुभवन् समयं पञ्चविंशतिसहस्रवर्षमितं गमयाम्बभूव व्यतीयाय // 311 // ते इति ते लोकान्तिकनामविश्रुतिमिताः सारस्वताद्याः सुरा, मत्वाऽथाऽऽसनकम्पतोऽवधिविदा दीक्षाक्षणं स्वामिनः / एत्य व्यज्ञपयन् प्रणम्य च विभुं सर्वीयमाज्ञापरास्तीथं तीर्थपते ! प्रवर्तयतरामित्याश्रितप्रीतयः // 312 // अथ ते प्रसिद्धाः लोकान्तिकनाम्ना विश्रुति ख्यातिम् इताः गताः सारस्वताद्याः सुराः देवाः आसनस्य कम्पतः कम्पनात् अवधिविदाऽवधिज्ञानेन स्वामिनः शान्तेः दीक्षायाः क्षणं कालं मत्वा ज्ञात्वा एत्य सर्वीयं सर्वेभ्यो हितकरं विभुं शान्ति प्रणम्य च आश्रितप्रीतयः प्रीताः सन्तः आज्ञापराः निदेशवर्तिनः तीर्थपते ! तीर्थं प्रवर्त्तयतरामितीत्थं व्यज्ञपयन् // 312 // .