________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सुरेष्विति सुरेषु विज्ञप्य गतेषु तेष्वथ प्रदाय सांवत्सरिकी तथांहतिम् / न्यवत्तचक्रायुधमादिमं सुतं महेन राज्ये जगतीपतिनिजम् // 313 // अथ तेषु सुरेषु विज्ञप्य गतेषु सत्सु जगतीपतिः शान्तिः सांवत्सरिकीमंहतिं दानं 'दानमुत्सर्जनं त्यागः........निर्वपणमपवर्जनमंहतिः' इति हैमः / प्रदाय, तथा, आदिम, ज्येष्ठं चक्रायुधं तदाख्यं निजं सुतम् महेनोत्सवपूर्वकं राज्ये न्यधत्त स्थापयामास // 313 // गीरिति गीर्वाणैरिन्द्रमुख्यैर्मनुजपरिवृद्धैश्चारु चक्रायुधायैदीक्षास्नानं प्रकृत्याऽप्यमलतमतनुः कारितस्तीर्थतोयैः / श्रीश्रीखण्डैर्विलिप्तो वरमणिशिविकां रत्नसिंहासनाङ्का, सर्वार्थाख्यां समर्थः प्रतिघमुखरिपुच्छेदनेऽध्यारुरोह // 314 // इन्द्रमुत्यैः गीर्वाणैः देवैः चारुभिश्चक्रायुधाथैः मनुजपरिवृतैः नृपैश्च तीर्थतोयैः तीर्थजलैः दीक्षास्नानं दीक्षाऽभिषेकोत्सवं प्रकृत्य कारयित्वा अमलतमः अतिनिर्मलस्तनुः शरीरं यस्य स तादृशः कारितः तथा, श्रीश्रीखण्डैः शोभामानैः श्रीखण्डचन्दनैः विलिप्तोऽनुलिप्तः सन् समर्थः शक्तिसम्पन्नः शान्तिः प्रतिघमुखाः क्रोधादयो ये रिपवः आन्तरारयस्तेषां छेदने छेदननिमित्तम् रत्नसिंहासनाङ्काम् रत्नसिंहासनयुक्ताम् वरमणिश्रेष्ठमणियुक्तां सर्वार्थाख्यां शिबिकामध्यारुरोह // 314 // (वरा मणयोः यस्यां ताम् ) प्रथममिति प्रथममवहस्तामानन्दाद् नरा बहुमानत- / स्तदनु विबुधाधीशाः सादिक्रमेण यथाक्रमम् / त्रिदिवसदना दैत्यास्ताा भुजङ्गकुमारका, न हि विदधते सन्तः केऽपि क्रमव्यतिलकनम् // 315 // सादिक्रमेण प्रथममादिः तदनु द्वितीय इत्येवंक्रमेण यथाक्रमम् क्रममनुल्लध्य तो शिबिकाम् प्रथमं प्राक् बहुमानतः मानपूर्वकम् आनन्दान्नतु बलात् नरा अवहन् तदनु तत्पश्चाद्विबुधाधीशाः, ततः त्रिदिवसदना देवाः दैत्याः तााः भुजङ्गकुमारकाः एते सर्वे यथाक्रमं शिबिकामवहन , ननु किमिति क्रमश एवावहन्निति चेत्तत्राह-हि यतः सन्तः केऽपि क्रमस्य व्यतिलकनं व्यतिक्रमं न विदधते कुर्वते क्रमत्यागोऽसन्ननाचार इति भावः // 315 //