________________ wwwwwwwwwwwwwwwwwwwwwwwwww श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / मृदङ्गेति-- मृदङ्गनादानपि नागराऽङ्गनाः श्रवःपथेऽभ्यापततोऽभ्युपेत्य ताः / समुत्सुकाः स्वामिनमीक्षितुं रयात् समाययुः स्वस्वगवाक्षमालिकाम् // 316 // श्रवःपथे कर्णमार्गेऽभ्यापतत आगच्छतः मृदङ्गस्य वाद्यविशेषस्य नादान् अभ्युपेत्य गृहीत्वा श्रुत्वेत्यर्थः ताः सर्वाअपि नागराङ्गनाः पौरस्त्रियः स्वामिनं शान्तिचक्रिणमीक्षितुं समुत्सुकाः सत्यः रयात् रवात् स्वस्वस्य गवाक्षस्य वातायनस्य मालिकां श्रेणी समाययुः // 316 // प्रतीति-- प्रतिष्ठते क प्रभुरेष साम्पतं सुरेन्द्रदैत्येन्द्रनरेन्द्रसंवृतः / निगद्यतामालि ! मदग्रतः कयाचिदेवमुक्ता न्यगदत् सखी ततः // 31 // आलि ! सखि ! "आलिः सखी वयस्या चेत्यमरः”। सुरेन्द्रैः दैत्येन्द्रैः नरेन्द्रैश्च संवृतः वेष्टितः एव प्रभुः शान्तिः सम्प्रति क्व प्रतिष्ठते गच्छति ? इति निगयताम् ममाग्रतः एवमित्थमुक्ता पृष्टा कयाचित् ततः न्यगददुत्तरयति स्म सखी // 317 // तदुत्तरमेवाह विहायेति विहाय रत्नानि चतुर्दशमभुनिधीन् नवाऽन्तःपुरमुत्तमश्रियः। सखि ! स्वयं सिद्धिसुखाय चेष्टते सनातनं शर्म तदस्ति यत्परम् // 318 // सखि ! प्रभुः ! शान्तिः चतुर्दश रत्नानि विहाय नव निधीन् अन्तःपुरम् उत्तमाः श्रियः राज्यादिलक्ष्मीश्च विहाय स्वयं सिद्धिसुखाय मोक्षसुखाय चेष्टते प्रवर्तते, यद्यतः। तच्छर्म सिद्धिसुखं सनातनमविनाशि अनन्तसुखरूपमस्ति रत्नादि तु तथा नेति तत्त्यजतीति भावः // 318 // सस्त्रीति सखि ! प्रजाः स्वाचिरकाललालिता विमुञ्चतो मानसमस्य निष्ठुरम् / वितर्कयामीत्युदिता सखी जगौ महात्मनां नो ममता मता कचित् // 319 // सखि ! चिरकालतो लालिताः पालिताः स्वाः स्वकीयाः प्रजाः विमुञ्चतः त्यजतोऽस्य शान्तेः मानसं निष्ठुरम् अस्निग्धं तर्कयामि मन्ये इतीत्थमुदिता कथिता सती परा सखी जगावुदतरत्, किमित्याह-महात्मनाम् क्वचित्कापि प्रजादौ ममता रागः नो मतेष्टा // 319 // विवर्णेति विवर्णनीया वरवर्णिनीषु सा किमालि ! नैवास्ति च सिद्धिवर्णिनी। __ जगत्त्रयस्याऽऽप्यपहाय वर्णिनीरयं प्रभुर्यों परिणेतुमुद्यतः // 320 // आलि ! सा प्रसिद्धा सिद्धिमुक्तिः सैव वर्णिनी स्त्री-"वर्णिनी महिला-बला" इति हैमः / वरवर्णिनीषु उत्तमस्त्रीषु विवर्णनीया प्रशंसनीया किं नैवास्ति ? अपि त्ववश्यमस्ति अतएव, अयं