________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् प्रभुः शान्तिः जगत्त्रयस्यापि वर्णिनीः स्त्रियोऽपहाय त्यक्त्वा यां सिद्धिवर्णिनीं परिणेतुं वशीकर्तुमुद्यतः प्रवृत्तः // 320 // अपक्षेति अपक्षपातित्वविशेषदर्शनात् , प्रभुत्वमेतस्य सखि ? प्रशस्यते / नरेन्द्रचक्रित्वरमागभोगवद् व्रतश्रियं यः परिरप्स्यते प्रभुः // 321 // सखि ! अपक्षपातित्वविशेषस्य एक आग्रहातिशयाभावस्य दर्शनात् एतस्य शान्तिप्रभोः प्रभुत्वं प्रशस्यते श्लाध्यम्,तदेव हि. प्रभुत्वं यन्न पक्षपातीति भावः / अपक्षपातित्वमेवाह-यः प्रभुः शान्तिः नरेन्द्रस्य चक्रित्वस्य च रमाया लक्ष्म्या अङ्गस्य स्रक्चन्दनादेर्भोगवत् अनुभववत्, व्रतस्य श्रियं लक्ष्मी परिरप्स्यते आश्रययिष्यते, राज्यव्रतश्रियोः समभावोऽयमिति भावः // 321 // इतीति इतीदृशीः पौरमृगीदृशां कथा, नयन् श्रुतौ श्रोत्रसुखाः सुखाश्रयः / सदाफलैः शाखिभिराकुलं विभुर्वनं सहस्राम्रवणं समासदत् // 322 // __ (षड्भिः कुलकम्) पौरमृगीदृशां पुरस्त्रीणामितीदृशीरुक्तप्रकाराः श्रोत्रसुखाः कर्णप्रियाः कथाः वार्तालापाः श्रुतौ नयन् शृण्वन् सुखाश्रयः आत्मानन्दमग्नः विभुः शान्तिप्रभुः सदाफलैः सर्वदा फलवद्भिः शाखिभिः वृक्षः आकुलं पूर्ण सहस्राम्रवणं तदाख्यं वनं समासदत्याप // 322 // भाते इति___भाते गायदिवोरुकोकिलकुलैर्यत् पञ्चमोद्गारिभि र्वातान्दोलितवल्लरीचलदलैर्नृत्यत् प्रमोदादिव / मल्लीपुष्पविलोचनैर्विकसितैफ्लोकितुं स्वामिनं हर्षारूढसहस्रलोचनतुलां धतु व्यवस्यद् ध्रुवम् // 323 // यत्सहस्राम्रवणम् प्रमोदात्स्वाम्यागमनहर्षात् पञ्चमं तदाख्यं स्वरमुद्गिरन्त्युञ्चरन्तीत्येवं शीलैः उरुभिर्विशालैः कोकिलानां कुलैः कृत्वा गायदिव, वातैः वायुभिः आन्दोलिता या वल्लयो / लताः तासां चलैः कम्पमानैः दलैः पत्रैः कृत्वा नृत्यदिव, तथा, विकसितैः मल्लीनां पुष्पाण्येव लोचनानि तैः कृत्वा स्वामिनं व्यालोकितुं द्रष्टुम् हर्षस्य आरूढेनातिप्रकटतया, भावप्रधानोनिर्देशः, आरूढतयेत्यर्थः / सहस्राणि लोचनानि यस्य तस्येन्द्रस्य तुलामुपमा धर्तुं ग्रहीतुं व्यवस्यद् ध्रुवम्, चेष्टदिव भाते प्रतिभाति // एतेन वने कोकिलाऽऽलापः मन्दो वायुः पुष्पसमूद्विश्वोक्ता // 323 // 13