________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / तत इति ततो वनान्तः शिविकावरोहणं, वितत्य विश्वैकविभूषणप्रभुः / प्रतिप्रतीकं स विभूषणव मुमोच रोमोञ्चमधिश्रयन् स्वयम् // 324 // ततो वनप्राप्त्यनन्तरम् विश्वस्य एको मुख्योऽद्वितीयो वा विभूषणः प्रभुः स शान्तिः शिविकायाः अवरोहणमुत्तरणं वितत्य कृत्वा, रोमाञ्चं पुलकमधिश्रयन् रोमाञ्चितो भवन् प्रतिप्रतीकं प्रत्यवयवं विभूषणव्रजम् आभरणराशिं मुमोच तत्याज // 324 // कृष्णेति-- कृष्णज्येष्ठचतुर्दशीतिथिदिनपान्ते यमः सति स्वामी सिद्धनमस्क्रियाप्रथमकं षष्ठं प्रपन्नस्तपः / कन्दान् मोहमहातरोरिव कचांस्तान् पञ्चभिर्मुष्टिभि मूलात् संमृतिकूलमाश्रित इव प्रोन्मूलयामासिवान् // 325 // कृष्णज्येष्ठचतुर्दशीतिथिदिनस्य प्रान्ते ज्येष्ठकृष्णचतुर्दशीतिथिदिनचरमयामे यम: सति यमदैवतके ऋक्षे नक्षत्रे सति भरणीगते शशिनि प्रसन्नः स्वामी शान्तिः सिद्धानां नमस्क्रिया नमस्कारः प्रथमं यस्य तादृशं सिद्धनमस्कारपूर्वकम् षष्ठं तपः प्रपन्नोऽङ्गीकृतः सन् मोह एव महातरः तस्य कन्दानिव तान् शिरस्थान् कचान् केशान् पञ्चभिः मुष्टिभिः कृत्वा संसृतेः संसारस्य कूलं परतटमाश्रितः भवं तितीर्षः प्राप्त इव मूलात् प्रोन्मूलयामासिवान् लुञ्चितवान् // 325 // प्रेति-- पाबाजीत प्रभुमन्वगेव वसुधेशानां सहस्रं तदा पापु रयिका अपि प्रियसुखाऽऽस्वादं तदा च क्षणम् / . सुत्रामा सिचयाञ्चले विभुकचानादाय दायादवच्चिक्षेप क्षणमात्रकेण सुकृती क्षीराम्बुराशौ स्वयम् // 326 // प्रभु शान्तिम् अन्वगमनुसरदिव तदा शान्तिप्रभुव्रतग्रहणसमये वसुधेशानां राज्ञां सहस्र प्रावाजीत् दीक्षां गृहीतवान् / तदा नैरयिका नारका अपि क्षणं क्षणमात्रम् प्रियस्येष्टस्य सुखस्याऽऽस्वादमनुभवं प्रापुः अन्येषां तु कथैव केति भावः / सुकृती पुण्यवान् सुत्रामा शक्रः सिचयस्य स्ववस्त्रस्याञ्चले प्रान्ते दायादवद् सगोत्रेणेव स्वयमात्मनैव विभोः शान्तेः कचान् लुञ्चितान् वालानादाय क्षणमात्रकेण झटित्येव क्षीराम्बुराशौ क्षीरोदे समुद्रे चिक्षेप प्रावाहयत् // 326 // लोकानामीति-- लोकानां तुमुलेऽतुलेऽथ हरिणा स्वीयाङ्गुलीसंज्ञया, व्यासिद्धे विधिवद् विभुः स विदधे सामायिकोच्चारणम् /