________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् स्यूतं चन्द्रकरैरिवातिविमलं सूक्ष्मं महाकोमलं स्कन्धांशे विबुधेश्वरः स निदधे श्रीदेवदूष्यं प्रभोः॥३२७॥ अथानन्तरम् हरिणा शक्रेन स्वीयायाः अङ्गुल्याः संज्ञयाङ्कितेन व्यासिद्धे अतुलेऽनुपमे लोकानां तुमुले निषिद्धे स विभुः शान्तिः विधिवद्विधिपूर्वकम् सामायिकस्योच्चारणं विदधे चकार तथा, स विबुधेश्वरः शक्रः प्रभोः शान्तेः स्कन्धांशे स्कन्धदेशे वामस्कन्धे इति यावत् चन्द्रकरैः चन्द्रिकाभिरिव स्यूतं निर्मितमतिविमलं सूक्ष्मं महाकोमलमतिश्लक्ष्णं श्रीदेवदूष्यं वस्त्रं निदधे स्थापितवानिति // 327 // बैरिति-- ज्ञैरभ्यूहितमेव तद्विनिहितं स्कन्धे प्रभोस्तार्किकैः, किं पुण्याभ्युदयो यशःसमुदयो ध्यानं सितं वा किमु ? / मत्यादित्रयसंजिगीषु किमिदं तुर्य मनःपर्यय ज्ञानं वाऽभ्युदितं चिराद बहिरिवाऽप्राप्तप्रवेशं स्थितम् // 328 // तार्किकैः तर्कनिपुणैः ज्ञैः विद्वद्भिः अभ्यूहितं तर्कितमेव, किमित्याह-प्रभोः शान्तेः स्कन्धे विनिहितं स्थापितं तदेवदूष्यम् पुण्यस्याभ्युदयः किम् ? यशःसमुदयः यशोराशिः वा किम् ? सितं शुक्लं ध्यानं वा किम् ! प्रागप्राप्तप्रवेशम्, अत एव चिराद्वाल्यादारभ्यैव बहिःस्थितमिव पूर्वभवगतं मत्यादित्रयं मतिश्रुतावधीन् संजिगीषु तदुत्कृष्टत्वादभिभवितुमिच्छु तुर्य चतुर्थ मनःपर्ययज्ञानं वा अभ्युदितं प्रकटितं किम् ! सर्वत्र किमिति वितर्के // 328 // दीक्षामिति दीक्षामक्षयसौख्यदानरसिकां, स्वीचक्रुषोऽस्यपभोगीर्वाणप्रभवो ललाटविलुल-दस्तप्रशस्ताम्बुजाः / चक्रुः स्तोत्रमशेषविघ्नविपिन-प्लोषक्रियोषर्बुधं, कैवल्यामृतवाधिवर्धनविधौ, पीयूषरोचिःप्रभम् // 329 // अक्षयस्याविनाशिनः सौख्यस्य सुखस्य दाने रसिकामनुकूलामाग्रहवतीं दीक्षाम् स्वीचक्रुषः गृहीतवतोऽस्य प्रभोः शान्तेः ललाटेषु विलुलन्तः संयुक्ताः हस्ता एव प्रशस्तानि अम्बुजानि येषां ते तादृशाः मस्तकन्यस्तहस्ताः कृताञ्जलयो गीर्वाणप्रभवः शक्राः अशेषाणां सकलानां विघ्नानामपायानां विपिनस्य वनस्य प्लोषक्रियायां दहने उषर्बुधमग्निम् तद्रूपमित्यर्थः, कैवल्य मोक्ष एवामृतवार्षिः अमृतसमुद्रः तस्य वर्धनविधौ वर्धने पीयूषरोचिःप्रभम् चन्द्रतुल्यं स्तोत्रं चक्रुः // 329 //