________________ 100 100 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। __स्तोत्रमेवाह नो इति नो शक्नोति तव स्तवं रचयितुं सुत्राममन्त्री गुरुदैत्यानां गुरुरप्यबोधकलितः काव्यप्रकाशे तव / / चाञ्चल्यं रसनाऽपि नः प्रथयति त्वद्वर्णने यत् प्रभो भक्तिस्तत्र जिनाऽपराध्यति तरां त्वत्पादपद्माश्रया // 330 // तव शान्तिप्रभोः स्तवं रचयितुम् स्तोत्रं विधातुम् सुत्राम्नां शक्राणां मन्त्री गुरुबृहस्पतिः नो शक्नोति क्षमते, तथा, दैत्यानामसुराणां गुरुः शुक्रोऽपि तव काव्यस्य त्वत्कीर्तनरूपस्य प्रकाशे रसनया प्रकटने अबोधकलितोऽज्ञ एव, अगम्यत्वात्तवेति भावः / यत्पुनः त्वद्वर्णने स्तुतौ नोऽस्माकं शक्राणां रसना जिह्वा चाञ्चल्यं प्रथयति प्रकटयति कर्तुं प्रवर्तते, तत्र प्रभो ! जिन ! शान्तेः तव पादपद्ममेवाश्रयो यस्याः सा भक्तिरेव अपराध्यति राम् अविन- . यमाचरति, असमर्था अपि वयं त्वद्वक्तिवशादेव स्तोतुं प्रवृत्ताः स्मेत्यर्थः // 330 // चक्रित्वेऽधिगते नवस्वपि निधिष्वेतेषु रत्नेष्वलं संप्राप्तेषु चतुर्दशस्वपि गृहे वृद्धि विलोक्याऽखिलाम् / चक्रित्वेइति-- चक्रित्वेऽधिगते नवस्वपि निधिष्वेतेषु रत्नेष्वलं संप्राप्तेषु चतुदर्शस्वपि गृहे वृद्धिं विलोक्याऽखिलाम। आजन्माप्रकृतिप्रपन्ननिवसन्मत्यादिवित्तित्रय ! न्यूनत्वापगमाय नूनमममश्चारित्रमेतत् प्रभो ! // 331 // ___ आजन्म जन्मत एवारभ्य प्रकृत्या स्वभावत एव प्रपन्नं प्राप्तं निवसन्तीनां स्थितानां मत्यादिवित्तीनां मतिश्रुतावधीनां त्रयं येन तत्सम्बोधने, प्रभो ! स्वामिन् ! शान्ते ! चक्रित्वेऽधिगते प्राप्ते, तथा. नवस्वपि नवसङ्ख्याकेष्वपि नैसर्पादिषु निधिषु एतेषु प्राप्तेषु सत्सु तथा चतुर्दशसु रत्नेष्वप्यलं सम्प्राप्तेषु सत्सु अखिलां सर्वप्रकारां वृद्धिमभ्युदयं गृहे विलोक्यापि एतत्सद्यः स्वीकृतं चारित्रं विरतिम् न्यूनत्वापगमाय, व्रतप्राप्तिमात्रमवशिष्टमभूत्तदपि मा भूदित्येतदर्थमममः स्वीकृतवानसि, अधुना सर्वथा पूर्णता ते जातेति भावः // 331 // हिंसेति हिंसाऽपासनमात्रमारचयितुं मिथ्यावचः सर्वथा, त्यक्तुं पालयितुं परस्वविषयव्यावृत्तलौल्यं मनः / निःशेषं च परिग्रहं निरसितुं दीक्षेश ! कक्षीकृता, चेष्टन्ते न निरर्थकं कथमपि प्रायो हि युष्मादृशाः // 332 //