SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 101 0 श्रीविजयदर्शनरीश्वरकृत-प्रबोधिनीयुतम् / ____सम्प्रति शान्तेर्दीक्षाग्रहणं स्तौति ईश स्वामिन् ! त्वया हिंसायाः अपासनमात्रम् सर्वप्रकारेण निवारणमारचयितुं कर्तुम्, तथा मिथ्यावचोऽसत्यं सर्वथा त्यक्तुम् परस्यान्यस्य स्वे वित्ते विषये व्यावृत्तमसम्पृक्तं लौल्यं चापल्यं यस्य तादृशमदत्ताऽऽदानेच्छारहितं मनः पालयितुं तादृशवृत्तिस्थमेव रक्षितुम् तथा निःशेषं सर्वप्रकारं परिग्रहं निरसितुं त्यक्तुञ्च दीक्षा तादृशचतुर्महाव्रतग्रहणरूपा कक्षीकृता स्वीकृता, न तु स्वर्गलब्ध्याद्यर्थम् निःस्पृहत्वादिति भावः / ननूक्तफलाथै दीक्षा कथं गृहीतेत्यत आह- हि यतः प्रायः / युष्मादृशाः वीतरागाः कथमपि निरर्थक निष्प्रयोजनं न चेष्टन्ते कुर्वन्ति, अत उपरोक्तं फलमेव कल्प्यते इति भावः // 332 // प्रव्रज्येति-- प्रव्रज्या भवताऽऽदृता जिनपते जानीमहे सर्वतः. शौर्य स्वस्य जगत्त्रयेऽपि विदितं कर्तुं च लोकोत्तरम् / कन्दर्पः प्रविहाय दर्पमखिलं संसेवनीयं सदा, तं च स्वं जनकं मनः क्वचन यद् युष्मद्भिया लीयते // 333 // जिनपते ! शान्तिजिन ! भवता जगत्त्रयेऽपि सर्वतः सर्वत्र स्वस्य स्वसम्बन्धिलोकोत्तरमौलौकिकं शौर्य विदितं प्रसिद्धं कर्तुम् प्रवज्या आढता गृहीता जानीमहे, तदेतदनुमिनोमि तत्र हेतुमाहयद्यतः भवतोऽतिशूरत्वाद्धेतोः. युष्मद्भिया कन्दर्पः कामदेवः अखिलं दर्प सकलविजयगर्वम् सदा संसेवनीयम् पितृसेवनस्य पुत्रधर्मत्वादिति भावः, तं प्रसिद्धं स्वं जनकं मनश्च कामस्य मनोभवत्वादिति भावः / प्रविहाय त्यक्त्वा क्वचनाज्ञातस्थाने लीयते निलीयते तिरोहितवान्, कथमन्यथा न दृश्यते इति भावः / कामो जितो भवतेति यावत् // 333 // .. साम्राज्यमिति-- साम्राज्यं प्रविहाय जीर्णतणवद् युष्मादृशस्तादृशं, चारित्रं प्रतिपद्यते यदनघः संसारपारं गमी / क्षेत्रमं प्रतिषेधुमक्षमतमो युक्तरभावादसौ, तल्लोकायतिकः करोतु किमघ लोकं परं वा विदन ? // 334 // अनघो निष्कलङ्कः संसारपारंगामी भवपरम्परां तितीर्घः युष्मादृशः भवादृशः तादृशमतिविशालं साम्राज्यं जीर्णतृणवत् प्रविहाय यश्चारित्रं प्रतिपद्यते स्वीकरोति तत्ततो हेतोः असौ लौकायतिकः चार्वाकः युक्तेरभावात् स्वपक्षसाधकतर्काभावात् क्षेत्रज्ञमात्मानम्, "क्षेत्रज्ञ आत्मा पुरुषः” इत्यमरः / प्रतिषेद्धु भूतातिरिक्त आत्मा नास्तीत्येवं निषेद्भुमक्षमतमोऽत्यन्तमसमर्थः वा तथा पर लोकं स्वर्गादिरूपं विदन् स्वीकुर्वन् किमचं किंनाम पापं करोतु ? न किमपि पापं कर्तुं प्रवर्ततामित्यर्थः / भवदाचरणेनात्मनः परलोकस्य च सिद्धतया युक्त्यन्तराभावाच्च चार्वाकोऽपि तत्स्वीकुर्वन् पापान्नि
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy