________________ 102 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / वर्तत एवेत्यर्थः उक्तस्वीकारेणास्तिकतया पापाद्भीतत्वादिति भावः // नास्तिकोऽपि भवता वशीकृत इति भावः // 334 // दृष्टुति दृष्ट्या माध्यमिको भवन्तमपि किं नो जाज्वलीति Qधा, त्वत्सेवामतिबद्धशुद्धमनसोऽप्यस्मान् समालोक्य वा ? / सिद्धान्तमतिपत्तिसक्तहृदयो नैव प्रमाणप्रमा मुख्यां स्वीकुरुते प्रवृत्तिमपि यो दुष्कर्म भिलोलितः // 335 // माध्यमिकः शून्यवादी बौद्ध विशेषोऽपि भवन्तं दृष्ट्वाऽपि तव वीतरागस्य सेवायां प्रतिबद्धं समासक्तम् अत एव शुद्धम् विकाररहितं सम्यक्त्वयुक्तं मनो येषां तादृशान् अस्मान् देवादींश्च . समालोक्य वा क्रुधा सर्वशून्यवादस्य प्रत्यक्षेण खण्डनजन्यक्रोधेन किं नो जाज्वलीति पुनः पुनचलति अपि तु ज्वलत्येव, स्वसिद्धान्तभङ्गे क्रोधस्य साहजिकत्वात्, एतेन तेषां रागद्वेषवत्त्वं सूचितम् / ननु दुराग्रहं मुक्त्वा सम्यक्त्वमेव तेनापि किं न गृह्यते इति चेन्न स्वसिद्धान्ताभिमानात् अभिमानसत्त्वे च न सारग्रहणसम्भव इत्याह- यः माध्यमिकः दुष्कर्मभिरशुभानुबन्धिकर्मभिः लालितः वशीकृतः अत एव सिद्धान्तस्य स्वसिद्धान्तस्य प्रतिपत्तौ स्वीकारे सक्तमेकतानं हृदयं यस्य स तादृशः सिद्धान्ततारतम्यविवेकशून्यः अत एव प्रमाणप्रमामुख्याम् प्रमाणज्ञानाधीनामपि प्रवृत्तिं वाती "वार्ताप्रवृत्तिर्वृत्तान्तः" इत्यमरः / नैव स्वीकुरुते शून्यवादिनां मते 'प्रमाणास्वीकारादिति भावः यो हि प्रमाणं न स्वीकरोति तस्य सारग्रहणे प्रवृत्तिर्न सम्भवति, सारस्य प्रमाणाधीनत्वात् एवञ्चाप्रमाणिकास्ते इति भावः // 335 // शाने इति झाने मौनमिति न्यगादि विदुषा केनापि शक्तौ क्षमाऽपीत्येतद्वितयं त्वयि प्रथमतः साक्षाच साक्षात्कृतम् / यद्वा कानि भवन्ति नैव बहुधा रत्नानि रत्नाकरे , तेषां स्यादुपयोग एव महतां नानासमृद्धिस्पृशाम् // 336 // केनाऽपि विदुषा सुधिया ज्ञाने सति मौनम् वाग्मिता, न तु वावदूकता, इति, शक्ती सामर्थ्य सति क्षमा अपराधसहिष्णुताऽपीत्येतद्वयं न्यगादि, ज्ञाने सति मौनं शक्तौ च क्षमाभूषणमित्यर्थः / तथा च कालिदासः-ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः / गुणागुणानुबन्धित्वात्तस्य सप्रसवा इवे" ति / तद्वयमपि प्रथमतः दीक्षाग्रहणात्पूर्वत एव साक्षात्प्रत्यक्षतश्च साक्षात्कृतं दृष्टम् / नैतत्त्वयि कृत्रिममेतावदेव वा इत्याह- यद्वा रत्नाकरे सागरे कानि