________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 103 रत्नानि बहुधा अनेकप्रकाराणि नैव भवन्ति ! अपि तु भवन्त्येव, किन्तु तेषां रत्नानाम् नानासमृद्धिस्पृशाम् अनेकलब्धिमाजां महताम् त्वादृशानाम् उपयोगो नियोग एवावसरे स्यात् न च तस्कृत्रिममेतावदेव वा; क्षमादिगुणानामाकरो भवानिति यावत् // 336 // अस्माकमिति अस्माकं नयनानि नाथ ! सफलीभूतानि भूयांस्यपि, माप्तानल्पसमाधियोगिसुलभत्वद्रूपसंप्रेक्षणैः। ज्ञानं केवलमाप्य दुर्लभतमं धर्मोपदेशामृतैः , सत्यं पावयितासि तात ! सकलश्रोत्राणि नस्त्वं कदा ? // 337 // नाथ ! स्वामिन् प्राप्ताऽनल्पसमाधयो यैस्तादृशैः योगिभिः सुलभैः प्राप्यैः तव रूपस्य स्वरूपस्य सम्प्रेक्षणैः कृत्वा अस्माकमिन्द्राणां भूयांसि सहस्राण्यपि नयनानि सफलीभूतानि, तवदर्शनैः नयनबाहुल्यं सफलं मन्ये इत्यर्थः तात ! त्वं कदा दुर्लभतमम् केवलं ज्ञानमाप्य सत्यं निश्चयेन धर्मोपदेशामृतैः नोऽस्माकं सकलानि श्रोत्राणि कर्णानि-कदा पावयितासि पवित्रीकर्ता भविध्यसि ? पावयिता पवित्रीकर्तासि ? तदाशास्महे वयमित्यर्थः // 337 // इत्थमिति इत्थं सर्वे सुरपरिवृढाः शान्तिनाथं जिनेन्द्र नुत्वा नत्वा ममदकलितास्तेऽथ नन्दीश्वरेऽपि / गत्वा कृत्वा बहुतरमहाष्टाहिकामृद्धिपूर्व, भातं स्थानं निजनिजमयुर्नित्यकल्याणभावाः // 338 // सर्वे सुरपरिवृढाः सुरेन्द्राः इत्थमुक्तप्रकारेण जिनेन्द्र शान्तिनाथं नुत्या स्तुत्वा नत्वा प्रणम्य च प्रमदकलिताः प्रसन्नाः, अथानन्तरम् नित्यकल्याणभावाः शुभाशयास्ते सुरेन्द्राः नन्दीश्वरेऽपि गत्वा बहुतराम् महाष्टाहिकाम् अष्टाहिकामहोत्सवं कृत्वा, भातं प्रकाशितं निजनिजस्थानमयुरगमन् // 338 // आसीदिति आसीत् श्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसरिसुगुरुर्विज्ञानभाजां गुरुः / तच्छिष्येण कृते चतुर्दश इतः श्रीशान्तिवृत्ते महा काव्ये श्रीमुनिभद्रसूरिकविना सर्गोऽयमीक्ष्यः सताम् // 339 // - नवरम्, निगदसिद्धमेवैतत् // 339 //