________________ KAAAAAJ 104 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः / इतिश्रीमन्मुनिभद्रसूरिकृत शान्तिनाथचरिते शासनसम्राटू-सूरिचक्रचक्रवर्ति-परमसद्गुरुश्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कारावाप्तन्यायवाचत्यतिशास्त्रविशारदबिरुदाचार्यश्रीविजय-दर्शनसूरीश्वरसन्डब्धप्रबोधिनीव्याख्यायां चतुर्दर्शः सर्गः // अहम् अथ पञ्चदशः सर्गः सर्गादौ सकलकल्याणमूलत्वाद्वर्ण्यत्वाच्च चरितनायकं श्रीशान्तिमेव स्तौति-सदिति सदबुद्धिपमुखैविभासितो, विज्ञानः स चतुर्भिराश्रितैः / सौधर्मेडिव लोकपालकैः, श्रीशान्तिप्रभुरस्तु वः श्रिये // 1 // सद्बुद्धिः प्रसुखं येषु तैः सम्यगूज्ञानप्रभृतिभिः सम्यङ्मतिज्ञानप्रभृतिभिर्वा जिनानां जन्मतः ज्ञानत्रयवत्त्वम्, दीक्षानन्तरञ्च मनःपर्यायज्ञानोत्पत्तिरिति चतुष्टयवत्त्वमित्यतः, चतुर्भिः मतिश्रुत्यवधिमनःपर्यायात्मकैः आश्रितैः स्वस्मिन् स्थितैः विज्ञानैः ज्ञानैः लोकपालकैः चतुर्भिः लोकपालाख्यैः सुरैः सौधर्मेट् सौधर्मेन्द्र इव विभासितः शोभमानः स गृहीत व्रतः श्रीशान्तिप्रभुः वः श्रोतृणां श्रिये अभ्युदयायास्तु भवतु, उपमाऽलङ्कारः // 1 // स्वामीति स्वाम्यैर्यापथिकी ततः श्रयन्नवाजीद दिवसे द्वितीयके / श्रीमद् मन्दिरनाम पत्तनं, पालेयाचलतुङ्गमन्दिरम् // 2 // ततः व्रतग्रहणानन्तरम् द्वितीयके द्वितीये दिवसे. ऐर्यापथिकीमीर्यापथविशुद्धवृत्ति तां श्रयन् स्वामी श्रीशान्तिप्रभुः श्रीमत् लक्ष्मीसंपन्नं प्रालेयाचलः हिमालयः स इव तुङ्गमुच्चमन्दिरं भवनं यस्मिन् तादृशं मन्दिरनाम पत्तनं नगरमबाजीत् // 2 // प्रभुविषये तत्रत्यलोकोत्कण्ठामाह-अस्माकमिति अस्माकं भवनानि पारणं, कृत्वाऽयं यदि पावयेदिति, स्वस्वागारबहिः स्थिता सदा, पौरा मार्गममार्गयन् प्रभोः // 3 // यदि अयं शान्तिप्रभुः पारणं कृत्वा अस्माकं भवनानि पावयेत्पवित्रीकुर्यादिति बुद्धया पौराः नागराः सदा स्वस्य अगारस्य गृहस्य बहिःप्रदेशे स्थिताः सन्तः प्रभोः शान्तिप्रभोः मार्गम्, आगमनमार्गममार्गयन् अन्वेषयन्ति स्म, एतेन लोकानां प्रभुविषये आदरातिशय- उत्कण्ठा च सूचिता // 3 //