________________ 105 आ० श्रीविजयदर्शनसुरीश्वरकृत-प्रबोधिनीयुतम् सर्वानिति सर्वोस्तानतिपत्य स प्रभुः, सौधं पाप सुमित्रभूपतेः। आकृष्टस्ततपुण्यसंपदा, कल्पद्रुः परमस्य जङ्गमः // 4 // स प्रभुः शान्तिः तान् स्वस्वागारबहिःस्थितान् सर्वान् पौरान् अतिपत्य अतिक्रम्य अस्य सुमित्रभूपतेः ततया विस्तृतया पुण्यसम्पदा आकृष्टः जङ्गमकल्पद्रुः / सौधं प्रासादं प्राप जगाम // 4 // आयन्तमिति आयन्तं समवेक्ष्य तं नृपोऽभ्युत्थायाऽभ्युपगत्य संभ्रमात् / त्यक्तच्छत्रपवित्रचामरः, पाणंसीत् परमेश्वरं मुदा // 5 // तं परमेश्वरं शान्तिमायन्तमागच्छन्तं समवेक्ष्य सम्भ्रमात् , हर्षत्वरावशात् त्यक्तं छत्रं पवित्रे धवले चामरे च येन स तादृशः अभ्युत्थाय अभ्युत्थानं कृत्वा अभ्युपगत्य समीपं सम्मुखमेत्य च मुदा सहर्षे प्राणंसीत् ननाम // 5 // सुमित्रस्य स्वभाग्यस्तुतिमाह प्राप्यमिति प्राप्यं वित्तमनेकपुण्यतश्चित्तं श्रेयसि तत्र कस्यचित् / पात्रं पात्रमहो ! गुणश्रियां, सम्पन्नं त्रितयं ममाधुना // 6 // वित्तं धनमनेकपुण्यतः पुण्यपुञ्जप्रभावात्प्राप्यम् , लभ्यम्, अपुण्यवन्तो दरिद्रा एव भवन्तीति भावः। तत्रापि धनलाभे सति कस्यचिदेव श्रेयसि कल्याणसाधनदानकर्मादौ चित्तं मनः, प्रवतते इति शेषः गुणश्रियां क्षमादिगुणानां ज्ञानादिलक्ष्मीनां पात्रमास्पदं पात्रं सच्चारित्रपात्रं अनेकपुण्यतः प्राप्यमित्यनुकर्षणीयम् अहो ! इति हर्षाश्चर्ये, अधुना शान्त्यागमनतः मम सुमित्रस्य त्रयं निरवद्याहारद्रव्यतदानपरिणतिशान्तिप्रभुरूपरत्नपात्रात्मकं पात्रं सम्पन्नम् // 6 // पूर्वश्लोकशेषमेवाह तदिति तद धन्योऽहमिति स्वचेतसा, संचिन्त्योत्पुलकः प्रमोदतः / तीर्थेशं प्रतिलाभ्य पायसै-भूपः कारयति स्म पारणम् // 7 // तस्त्रितयलाभतः अहं सुमित्रः धन्यः प्रशस्योऽस्मीतीत्थं स्वचेतसा सञ्चिन्त्य प्रमोदतः हर्षतः उत्पुलकः सरोमाञ्चः भूपः सुमित्रभूपः तीर्थेशं शान्तिप्रभुं पायसैः परमान्नैः "पायसं परमान्नं च क्षैरेयी" इति हैमः / प्रतिलाभ्य पारणं कारयति स्म // 7 // . प्रोच्चैरिति-- प्रोच्चैः शारदकौमुदीसितक्षरेयीभृतपाणिसंपुटः / ___ इत्यावेदयति स्म वा जिनः, शुक्लध्यानमिदं करे मम // 8 // शा. 14 .