________________ 106 श्रीशन्तिनाथमहाकाव्यम् पञ्चदशः सर्गः / ___वा अथवा शारदी शरद्रुतूद्भवा या कौमुदी चन्द्रिका तद्वत्सितया धवलया क्षैरेप्या पायसेन भृतं पूर्ण कारणे कार्योपचार इदं पायसं शुक्लध्यानमेवेतीत्थं तीर्थकराणां पाणिपात्रत्वात्, पाणिसम्पुटं यस्य स तादृशः / जिनः शान्तिप्रभुः मम शान्तेः करे इदं पायसं. शुक्लध्यानमेव, पायसं शुक्लध्यानबुद्धयैव भावयामीत्यर्थः / इतीत्थं प्रोच्चैरावेदयति स्म // 8 // तारमिति तारं दुन्दुभयोऽनदन्नथ, प्राट्कालबलाहकस्वनाः / . पुण्यौघं भुवनेषु विश्रुतं, कुर्वाणा इव मित्रभूपतेः // 9 // अथ शान्तिकृतावेदनानन्तरम्, प्रावृट्काले वर्षों बलाहकस्य मेघस्य स्वन इव स्वनो येषां ते तादृशाः मेघगम्भीरस्वराः दुन्दुभयः मित्रभूपतेः पुण्यौघं पुण्यराशिं भुवनेषु लोकेषु विश्रुतं. ख्यातं कुर्वाणा इव तारमुच्चस्वरेणानदन् नदन्ति स्म / अत्र दुन्दुभिनादस्य भुवनख्यापकत्वेन संभावनादुत्प्रेक्षा // 9 // गीर्वाणा इति गीर्वाणाः परितुष्टमानसा, रत्नानां किल वृष्टिमादधुः। सौधे तस्य महार्यतामिवाऽतुल्यां प्रापयितुं तदा ध्रुवम् // 10 // तदा शान्तिप्रभुपारणकाले परितुष्टमानसा गीर्वाणाः तस्य सुमित्रभूपस्य सौधे प्रासादे अतुल्यां सातिशयां महार्यतां महामूल्यत्वं महापूज्यत्वं वा “मूल्ये पूजाविधावर्घ "इत्यमरः" / प्रापयितुं सम्पादयितुं ध्रुवमित्युत्प्रेक्षायाम्, प्रापयितुमिवेत्यर्थः / रत्नानां वृष्टिम् आदधुश्चक्रुः, किलेत्यैतिये // 10 // सौधमिति सौधं तद् महनीयमादराद् , देवानामपि यत्र तीर्थकृत् / एतीति त्रिदशास्तदङ्गणे, कुर्वन्ति स्म सुमोघवर्षणम् // 11 // यत्र यस्मिन् सौधे तीर्थकृत् तीर्थङ्करप्रभुः एति आगच्छति तत्सौधम् देवानामपि, किम्पु. नरन्येषाम् आदरादादरपूर्वकम् महनीयं पूजनीयमिति हेतोः, त्रिदशा देवाः तस्य सौधस्याङ्गणे चत्वरे “अङ्गणं चत्वराऽजिरे" इत्यमरः / सुमानां पुष्पाणामोघस्य राशेः वर्षणं कुर्वन्ति स्म // 11 // संताप इति संतापो भवपातसंभवो, मा भूदस्य मनस्विनः परम् / इत्युर्वीन्द्रनिकेतनं सुराः, सिञ्चन्ति स्म सुगन्धवारिभिः // 12 //