________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 107 अस्य मनस्विनः उदारमनसः सुमित्रभूपस्य भवे पातादर्थाज्जन्मनः संभवो यस्य तादृशः संतापः दुःखं मा भूदिति हेतोः सुराः उर्वीन्द्रस्य भूपस्य निकेतनं गृहं सुगन्धिवारिभिः सुगन्धिजलैः परमतिशयेन सिञ्चन्ति स्म // 12 // अस्माकमिति अस्माकं भवदात्मवासनाः, संक्रामन्तु महीन्द्र ! कहिंचित् / अस्वप्नाः प्रभुपारणक्षणे, चेलोत्क्षेपमितीव चक्रिरे // 13 // महीन्द्र ! सुमित्रभूप ! कर्हिचित्कदापि भवतस्तवात्मनो वासनाः भावनाः अस्माकमस्मासु संक्रामन्तु वयमपि त्वादृशभावनावन्तो भवाम इति सूचयन्निव अस्वप्नाः देवाः प्रभोः शान्तिजिनस्य पारणक्षणे चेलोत्क्षेपं वस्त्रोत्क्षेप चक्रिरे // 13 // इतीति-- इत्यानन्दपरीतनागरात्, तस्माद् मन्दिरपत्तनादयम् / संतोषेण विधाय पारणामन्यत्र व्यहरज्जिनेश्वरः॥१४॥ इत्युक्तप्रकारेण आनन्देन परीताः आप्लुताः नागराः यस्मिन् तस्मात् तस्मान्मन्दिराख्यास्पत्तनात् अयं जिनेश्वरः शान्तिजिनः सन्तोषे संतोषपूर्वकं पारणां विधायान्यत्र व्यहरद्विहारं कृतवान् // 14 // आक्रान्ता इति आक्रान्ता जिनपादपङ्कजैर्नोल्लध्याऽस्तु धरा नृणामियम् / ...इत्याधायि नृपेण पारणाभूमौ तत्र च रत्नपीठकम् // 15 // जिनस्य शान्तिजिनस्य पादपङ्कजैराक्रान्ता पारणक्षणे अधिष्ठिता इयं धरा मही नृणाम् माऽस्तु उल्लङ्ध्या इमां भगवत्पारणामहीं केऽपि जना नोल्लङ्घयन्तु इति बुद्धया नृपेण मित्रभूपेन तत्र पारणाभूमौ रत्नपीठकं रत्नमयपीठं आधायि विरचितं // 15 // धर्म इति-- धर्मः कुत्रचन प्रवर्तते, कस्मिन् नाप्युपवर्तते न्विति ? विज्ञातुं व्यहरद् विभुर्भुवं, विज्ञानां न मुधा प्रवृत्तयः // 16 // ____ धर्मः अहिंसासत्यादिरूपः कुत्रचन स्थाने प्रवर्तते कस्मिन् न्विति वितर्के, नापि उपवर्त्तते प्रवर्तते इति विज्ञातुं विभुः-शान्तिजिनः भुवं महीं व्यहरत् विहरति स्म, न तु यदृच्छया, तदेवाहविज्ञानां सज्ज्ञानवतां मुधा निष्प्रयोजनं प्रवृत्तयः न भवन्तीति शेषः // 16 //