________________ 108 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः / अथ तस्य विहारकालिकचर्यामाह निद्रामिति निद्रां नैव बभाज कर्हिचिज्जानन् मौनमसेवत प्रभुः। निःसङ्गो निषसाद न कचिद् , निन्ये वत्सरमेवमेककम् // 17 // प्रभुः शान्तिजिनः कर्हि चित्कदापि निद्रां नैव बभाज न शयितवान् , तथा, जानन्, अपि मौनमसेवत, तत्र तत्र तत्तद्विशेष्यं जानन्नपि ध्यानतत्परत्वान्न ब्रूते स्मेत्यर्थः / कचित् निःसङ्गः विषयव्यासङ्गमुक्त इत्यर्थः / न निषसादोपविवेश, एवमुक्तप्रकारेण दुष्करं तपः कुर्वन् एकेकमेकं वत्सरं वर्षम् निन्ये क्षपयति स्म // 17 // अथ शान्तेः हस्तिनापुरगमनमाह राज्यमिति राज्यं चक्रिपदं ततो व्रतं, तुर्य ज्ञानमिदं समासदम् / यस्यां जन्मभुवीत्यवेत्य स, पापत् तामथ हस्तिनापुरम् // 18 // अथानन्तरम् यस्यां जन्मभुवि जन्मभूमौ राज्यं चक्रिपदं चक्रवर्त्तित्वम् ततस्तदनन्तरम् व्रतमिदं तुर्यं चतुर्थ ज्ञानं मनःपर्यायज्ञानञ्च समासदं प्राप्तम् इतीत्थमवेत्य विचार्य स शान्तिप्रभुः तां स्वजन्मभूमि हस्तिनापुरम् तदाख्यं नगरं प्रापदगमत् // 18 // अथ तत्र शान्तिजिनस्य केवलज्ञानप्राप्तिमाह-युग्मेन साहस्रति साहस्राम्रवणाभिधे वने, तस्मिन् नन्दितरोस्तलेऽमलम्। शुक्लध्यानमधिश्रितस्तपः, षष्ठं चापि विघातिकर्मकः // 19 // पौषे मासि सिते तिथौ नवम्याख्याते भरणीगते विधौ . ज्ञानं पञ्चममाप केवलं, लोकालोकविभासकं विभुः // 20 // . तस्मिन् हस्तिनापुरे साहस्राम्रवणाभिधे वने उद्याने नन्दितरोर्नन्दिीवृक्षस्य तले अमल विशुद्धं शुक्लध्यानम् षष्ठं उपवासद्वयात्मकं तपश्चापि अधिश्रित * आस्थितः वि-विगतं वि नष्टं घातिकर्म ज्ञानावरणादिचतुष्टयं यस्य स तादृशः गतं विनष्टं घातिकर्म विघातिकर्म यस्य स तादृशः कृतघातिकर्मक्षयः विभुः शान्तिजिनः पौषे मासि स्थिते शुक्लपक्षे नवमीत्याख्याते नवम्यासंज्ञके तिथौ विधौ चन्द्रे भरण्यां तदाख्यनक्षत्रे गते स्थिते सति लोकञ्चालोकं च तयोविभासकं प्रकाशकम् लोकालोकविषयकम् पञ्चमं केवलं तदाख्यं ज्ञानमाप // 19-20 // अथ तत्काले लोककल्याणमाह आलोकेनेति आलोकेन विसर्पिणाऽभितः, सर्वा एव दिशश्चकासिरे।। वाता वान्ति सुखाः स्म तत्क्षणं, पापुः शर्म च नारका अपि // 21 //