________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ तत्क्षणं तस्मिन् प्रभोः केवलज्ञानप्राप्तिकाले अभितः सर्वतो विसर्पिणा प्रसरता आलोकेन प्रकाशेन सर्वा एव दिशः चकासिरे प्रकाशिता बभूवुः, तथा वाताः, वायवः सुखाः सुखस्पर्शाः वान्ति स्म, अवहन् तथा, नारकाः अपि, किम्पुनरन्ये शर्म सुखं प्रापुश्च // 21 // अथेन्द्रासनकम्पमाह पीठानीति पीठानि प्रचकम्पिरे. तदा शक्राणां सुखलालितात्मनाम् / शङ्के पञ्चमवित्प्रभावना-प्रस्थानेशवियोगशङ्कया // 22 // तदा शान्तेः केवलप्राप्तिकाले सुखैः लालितात्मनाम् सुखैकमग्नानां शक्राणाम् पीठान्यासनानि प्रचकम्पिरे, तदेवोत्प्रेक्षते, शङ्के मन्ये, यत् पञ्चमविदः केवलिनः प्रभावनार्थम् , केवलज्ञानमहोत्स्वार्थ प्रस्थानेन गमनेन कृत्वा य ईशस्य तदासनस्य पत्युः शक्रस्य वियोगः विरहः तच्छङ्कया, प्रचकम्पिरे अन्योऽपि हि भाविदुःखशङ्कया कम्पते इति भावः // 22 // अथ तत्र देवानामागमनमाह-सेन्द्रा इति सेन्द्रास्तत्र सुराः समागमन् , हर्षोत्कर्षभृतोऽथ वाहनः / जात्याष्टापदतुल्यलोचन-भ्राज्यष्टापदसिंहगोमुखैः // 23 // शान्तिनाथकैवल्यज्ञानोपत्तिस्थाने अथानन्तरम् हर्षोत्कर्षभृतः सातिशयहृष्टाः सेन्द्राःसुराः जात्येनोत्तमेनाष्टापदेन कनकेन तुल्यैः लोचनैर्तीजन्ते इत्यवंशीलैः अष्टापदसिंहगोमुखैर्वाहनैः अष्टापदाः तदाख्यपशवः सिंहाः गावो बलिर्वदाश्च मुखाः प्रधाना येषु तादृशैः वाहनैः कृत्वा समागमन् // 23 // अथ देवकर्तृकभूमिसम्मार्जनमाह देवा इति देवास्तत्र मरुत्कुमारका, हर्षाद् योजनमात्रभूतले / धन्यमन्यहृदः समन्ततः, पुण्यानामुदये रजोऽहरन् // 24 // तत्र केवलज्ञानोत्पत्तिस्थाने मरुत्कुमारकाः पवनकुमाराख्या देवाः धन्यं मन्यन्ते हृदयानीति ते तादृशाः धन्या वयं यदयमवसरः प्राप्त इत्येवं मन्वानाः सन्तः हर्षाद् हर्षपूर्वकम् पुण्यानामुदये उदयनिमित्तम् योजनमात्रे भूतले रजः धूलिमहरन् सम्माजयन्ति स्म // 24 // __अथ तत्र भूमौ सुगन्धिजलसिञ्चनमा सिञ्चन्तीति___ सिञ्चन्ति स्म सुगन्धिवारिभिस्तां भूमि जलभृत्कुमारकाः / पुंसां तत्र निषेदुषां ध्रुवं, संतापाऽपनिनीषयाऽभितः // 25 // जलभृत्कुमारकाः मेघकुमाराः तां भूमि सुगन्धिवारिभिः सिञ्चन्ति स्म, तत्रोपेक्षते, तत्र योजनमितं तत्र भूमौ अभितः सर्वतः निषेदुषाम् , उपविष्टानां पुंसां जनानाम् संतापस्य धर्मस्यापनिनीषयाऽपनेतुमिच्छया ध्रुवं शङ्के // 25 //