________________ 110 श्रीशान्तिनाथमहाकाव्यम्-पश्चदशः सर्गः / अथ तत्र रत्नादिभिरेकयोजनभूमितलबन्धमाह पतामिति एतां व्यन्तरनिर्जरास्ततोऽबन्धन रत्नसुवर्णराजिभिः / / आत्मानं सहसा व्यमोचयंस्ते बुद्ध्यैव कुकर्मबन्धतः // 26 // ___ ततः सिञ्चनानन्तरम् व्यन्तरनिर्जराः-व्यन्तराख्यदेवाः एतां योजनमितां भूमिम् रत्नानां सुवर्णानाञ्च राजिभिः श्रेणिभिरबन्धन् रत्नबद्धां कुर्वन्ति स्म ते तथा कुर्वन्तः बुद्धया चातुर्येण सहसा विनाप्रयासमेव कुकर्मबन्धतः आत्मानं व्यमोचयन् तीर्थकृत्सेवा हि कर्मध्वंसायजायते इति भावः // 26 // अथ तत्र पुष्पवृष्टिमाह पुष्पाणीति-- पुष्पाण्यत्र ततः प्रविक्षिपुर्यावद्वर्णमयानि ते सुराः / विश्वाय॑ नमतां जिनेश्वर, सिद्धानीव फलानि भाषितुम् // 27 // ततः भूमिबन्धानन्तरम् ते सुराः अत्र समवसरणभूमौ यावद्वर्णमयानि शुक्लनीलादिपञ्चवर्णानि पुष्पाणि अधोमुखावृन्तानि विश्वायं जगत्पूज्यं जिनेश्वरं नमतां फलानि सिद्धानि निष्पन्नान्येवेति भाषितुं सूचयितुमिव प्रचिक्षिपुः विकीरन्ति स्म // 27 // तत्र तोरणादिविधानमाह प्रेङ्खदिति-- प्रेसद्वन्दनमालिका व्यधुर्देवास्तोरणमालिकास्तके / प्रत्याशं विलसत्कषायकश्रीणां दुर्धरपाशरज्जवः // 28 // तके ते देवाः प्रेक्षन्त्यः पवनवशाच्चलन्त्यः वन्दनमालिकाः- "तोरणोचे तु मङ्गल्यं दामवन्दनमालिका" - इति हैमः" / तोरणमालिकाश्च प्रत्याशां प्रतिदिशम् विलसन्तीनां कषायकश्रीणाम् क्रोधादिसाम्राज्यानाम् दुर्धराः दुश्छेद्याः पाशरज्जवः इव बन्धनरज्जव इव व्यधुः चक्रुः // 28 // अथ तत्र स्तम्मेषु शालभञ्जिका उच्चेति उच्चस्तम्भकशालभजिका, रेजुस्तासु महाद्भुतश्रियः / विद्याधर्य इवाऽऽगताः पुरा, श्रोतुं तीर्थकरस्य देशनाम् // 29 // "शालभञ्जिः पाञ्चालिका च पुत्रिकाः' इति हैमः / तासु तोरणादिश्रेणीषु महाद्भुतश्रियः अत्याश्चर्यकररूपवत्यः उच्चेषु स्तम्भकेषु स्तम्भेषु शालभञ्जिकाः पुत्रिकाः पुत्तलिकाः पुरा प्रथममेव तीर्थकरस्य देशनां श्रोतुम् आगता विद्यार्य इव रेजुः शोभन्ते स्म // 29 // अत्र तत्र मकरनिर्माणमाह तास्विति तासूच्चैर्मकरावली तथा-ऽभाद् गारुत्मतरत्नमय्यसौ / जानानेति जिनस्य देशनापीयूषाम्बुनिधौ न भीर्मम // 30 //