________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 111 तासु तोरणादिश्रेणीषु उच्चैरुपरि प्रदेशे असौ वर्ण्यमाना गारुत्मतरत्नमयी मरकतमणिनिर्मिता “गारुत्मतं मरकतमश्मगों हरिमणि"रित्यमरः / मकरावली तथा तेन रूपेण अभात् शोभते स्म, यथा जिनस्य शान्तिजिनस्य देशनैव पीयूषाम्बुनिधिः अमृतसमुद्रस्तस्मिन् मम मकरस्य न भीर्भयमितीत्थं जाननेवाभात् // 30 // . तस्या इति-- तस्या ऊर्ध्वविभागमाश्रिता, रेजे छत्रचतुष्टयी भृशम् / संघस्याऽपि चतुर्विधस्य यत्, स्थास्याम्यूर्वमिदं मदादिव // 31 // तस्याः, तोरणश्रेण्या ऊर्ध्वविभागमाश्रिता उपरिस्थिता च्छ्त्राणां चतुष्टयी छत्रचतुष्कम् यद् यतः चतुर्विधस्य साधु-साध्वी-श्रावक-श्राविकारूपस्य सङ्घस्य अपि ऊर्ध्वमुपरि स्थास्यामीतीत्यस्मात्प्रकारान्मदादभिमानादिव भृशं रेजे शुशुभे // 31 // ध्वजं वर्णयति उद्धृता इति-- उद्धृता मृदुना नभस्वता, रेजुस्तोरणमूर्धसु ध्वजाः / पापं वेक्ष्यति नात्र केवलं, संज्ञां दातुमिवोद्यता इति // 32 // तोरणानां मूर्धसु उपरि रोपिताः मृदुना मन्देन नभस्वता पवनेनोद्धताः कम्पिता ध्वजाः अत्रस्थाने केवलमेकमात्रं पापं न वेक्ष्यति प्रवेशमाप्स्यसीति संज्ञां सूचनां दातुमुद्यता तत्परा इव स्थिता रेजुः / उत्पेक्षा // 32 // अष्टाविति अष्टौ माङ्गलिकानिऽतोरणाऽधस्तादुच्चधरासनोच्चये / .. प्रत्येकं विदधुर्दिवौकसः, सिद्धीरासयितुं श्रुता इव // 33 // तोरणानामधस्थादधोभागे दिवौकसो देवाः उच्चैधरा पृथ्वी एवासनं तस्योच्चये स्थण्डिले अष्टौ माङ्गलिकानि अष्टमङ्गलविधानि श्रुताः प्रसिद्धाः सिद्धीः अणिमादिसिद्धीः प्रत्येकमासयतुमुपवेशयितुमिव विदधुर्विन्यस्तवन्तः // 33 // अथ तत्र वनिर्माणमाह-मापीठ इति क्ष्मापीठेऽथ समुन्नते व्यधुः, शालं कल्पनिवासिनोऽमराः / रत्नैरच्छत मैजिनेशितुर्भक्त्या शक्तिवशादिवाशयः // 34 // अथाष्टमङ्गलस्थापनानन्तरम् कल्पनिवासिनोऽमराः देवाः जिनेशितुः शान्तिजिनस्य भक्त्या हेतुना, शक्तिवशात्स्वसामर्थ्यतः समुन्नतेऽत्युच्चे मापीठे महीपठि आशयैः रत्नैः स्वाभिप्रायै'रिवाच्छतमैः स्वच्छैः कृत्वा शालम् अभ्यन्तरप्राकारं व्यधुर्निर्ममुः ॥उपमा // 34 //